SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ जम्बूदत्तेति नामाथ, पित्रा तस्य विनिर्ममे । सो विंशतिवर्षान्ते, नरोऽभूवियोगतः ॥ ८॥ नागश्रीनामतः कन्यां, स पित्रा परिणायितः । चत्वारस्तनया जाता, जम्बूदत्तस्य च क्रमात् ॥९॥ साई महेभ्यपुत्रीभिश्चत्वारः परणायिताः। वृक्षवत्पुत्रपौत्राद्यैर्ववृधे स धनप्रियः ॥ ६१० ॥ धनप्रियं विना सर्वे, जिनधर्मेण भाविताः । प्रान्ते प्रव्रज्य जम्बूः स, सभार्यः सिद्धिभागभूत् ॥ ११॥ अन्ये सर्वेऽपि सत्कृत्यं, कृत्वा स्वर्ग गताः क्रमात् । धनस्तु तद्वियोगातः, पतितोऽथार्तिसागरे ॥१२॥ महामोहविमूढात्मा, चित्तसन्तापकारकः । अजानन् धर्ममाहात्म्यं, स शोकं हृदये दधौ ॥ १३ ॥ मम पुत्राश्च मे लक्ष्मीहिणी मे गृहं मम । इत्यार्त्तवातो मृत्वा, गतोऽथैकेन्द्रियेषु सः ॥ १४ ॥ ततोऽनन्तभवावर्ते, मोहाद्धनप्रियो वणिक् । पतितस्तेन नो कार्यो, महामोहो मनीषिभिः॥ १५ ॥ श्रुत्वैवं पुरुषोत्तमो नरपतिः संवेगरङ्गं दधन्नत्वा सूरिवरं जगाम सदने राज्यञ्च शिक्षान्वितम् । पुत्राय प्रददौ च मन्त्रिनिवहं चापृच्छय सन्तुष्टधीः, चारित्रग्रहणोद्यतः स्वयमभूत्संसारविच्छित्तये १६/ चक्रे जिनेषु ध्वजपूजनाचं, गुरुश्च सचं समपूजयच्च । Jain Educa t ional For Private Personal Use Only ww.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy