________________
२०००००००
सिद्धान्तपाठविनयतपःक्षान्त्यादिसद्गुणैः । विभूषितश्चिरं सम्यक् , स श्रामण्यमपालयत् ॥ ८९ ॥ प्रपद्यानशनं प्रान्ते, विपद्य च समाधिना । कल्पे तृतीये संजज्ञे, शक्रसामानिकः सुरः ॥ ५९० ॥
तान् दिव्यभोगान्, भुक्त्वा च्युत्वाऽऽयुषः क्षये। तत्पुण्यशेषादत्रैव, त्वत्पुत्रः समपद्यत ॥ ९१॥ जातिस्मृत्या स्वप्राग्भावौ, पुण्यसारोऽपि तौ मुदा । ज्ञात्वा सूरिं प्रणम्यैवमवदद्विहिताञ्जलिः ॥ ९२ ॥ जातिस्मृत्या मयाप्येतत् , सर्वं ज्ञातं मुनीश्वर ! । तत्सम्प्रत्यपि तेष्वेव, यतिष्येऽहं गुणेष्वपि ॥ ९३ ॥ इत्युक्वा देशविरतिं, स प्रपेदे तदा गुरोः । राज्ञा पित्रा तथा मात्रा, पत्न्यापि च समन्वितः ॥ ९४ ॥ गुरुं नत्वा ययुः स्वस्वगृहे श्रेष्ठिभवोऽथ सः । देवपूजादिनिरतः, श्राद्धधर्ममपालयत् ॥ ९५॥ निवेश्य स्वपदेऽन्येद्युर्धन्याकुक्षिभवं सुतम् । पित्रादिभिः समं दीक्षां, सुनन्दगुरुतोऽग्रहीत् ॥ ९६ ॥ व्रतं सुतीव्र मुनिपुण्यसारश्चिरं प्रपाल्यानशनेन मृत्वा । देवत्वमाप्तोऽथ सुमानुषत्वं, क्रमेण मोक्षस्य
सुखान्यवाप ॥ ९७॥ इति श्रीपुण्यसारकथा समाप्ता ।
Jan Education
For Private Personal use only