SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ 1129611 Jain Education I एवं तत्र पुरेऽनेकपौरलोकनिषेवितः । कमलां सफलां स्वस्य, दानादिनिरतो व्यधात् ॥ ७९ ॥ तत्रैव नगरेऽन्येद्युः, सुनन्दः श्रुतकेवली । आगत्य समवासार्षीत्, सुरिर्भूरिविनेययुक् ॥ ५८० ॥ तं नन्तुमगमद्भूपः, पौरलोकसमन्वितः । पुण्यसारोऽपि च पितृमातृपत्न्यादिभिर्युतः ॥ ८१ ॥ अद्वन्द्वास्तत्पदद्वन्द्वं, नत्वा सर्वेऽप्युपाविशन् । उवाच सोऽपि सद्धर्म्मवाचं वाचंयमाग्रणीः ॥८२॥ यतः - सर्व्वज्ञो हृदि वाचि तद्गुणगणः काये च देशव्रत, धम्र्मे तत्परता परः परिणतो बोधो बुधश्लाघ्यता । प्रीतिः साधुषु बन्धुता बुधजने जैने रतिः शासने, यस्यैवं जनरञ्जको गुणगणः सः श्रावकः पुण्यभाक्॥ ८३॥ प्रणम्य घनमित्रस्तं पप्रच्छेदमतुच्छधीः । प्रभो ! मत्सूनुना किं किं, सुकृतं प्राग्भवे कृतम् ? ॥ ८४ ॥ येनास्य गृहदासीव, लक्ष्मीर्गृहमधिश्रिता । सौभाग्यं वपुरारोग्यं, राजादिजनमान्यता ॥ ८५ ॥ युग्मम् सूरिः प्राह पुरेऽत्रैव, पुराऽसाविभ्यसूरभूत् । धनदाह्वः प्रकृत्यैव, कृतज्ञस्त्यागसुन्दरः ॥ ८६ ॥ संयोगे सद्गुरोर्देशाविरतिं प्रत्यपद्यत । जगृहे नियमं पञ्चोदुम्बरादिकवस्तुनः ॥ ८७ ॥ सप्तक्षेत्र्यां वित्तबीजमवपन्निजकं सदा । प्रव्रज्यामपि शिश्राय, सद्गुरोः पुरतोऽन्यदा ॥ ८८ ॥ For Private & Personal Use Only महा. ॥१७६॥ w.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy