SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ लक्ष्म्या यदुदितं रात्रौ, सत्यीचक्रे तयेति तत् । कदाप्यनर्थः स्यादेषां, गृहे खलगिरा नृपात् ॥६८॥ एवं विमृश्य स मापपार्श्वे गत्वा ततोऽभ्यधात् । आनाययन्निजनरै, राजा तान् विस्मितो हृदि ॥ ६९॥ श्रीगृहेऽस्थापयत्सर्वान, द्वितीयदिवसेऽप्यथ । पुण्यसारः प्रगे दृष्ट्वा, हेमकुम्भांस्तथा गृहे ॥ ५७० ॥ गत्वा भूयोऽपि राज्ञोऽग्रेऽकथयत्तेन तानपि । तथैवानाय्य भूभा, भाण्डागारे न्यवेशयत् ॥ ७१ ॥ तृतीयेऽपि दिने वीक्ष्य, पुण्यसारस्तथैव तान् । गत्वाऽभ्यधान्नृपस्याग्रे, पुनः सोऽप्यतिविस्मितः॥७२॥ तानप्यानाययद्यावत्तावन्मन्त्रीदमभ्यधात् । पूर्वानायितहैमाष्टकुम्भशुद्धिं विधापय ॥ ७३ ॥ पूर्वमेवाथ राज्ञापि, कारिते तद्विलोकने । श्रीगृहस्यान्तरे पुम्भिस्तदभावोऽभ्यधीयत ॥ ७४ ॥ सत्येन पुण्यसारोऽपि,पुण्यसार ! त्वमत्र भोः!। यस्याभिसारिकेव श्रीरेत्यौकोऽभिसृता स्वयम् ॥७॥ अन्यथा हेमकुम्भास्ते, मया लोभवशादिह । आनायिता अपि कथं, पुनस्त्वन्मन्दिरं निताः ? ॥७६॥ | राज्ञाऽतिविस्मितेनेति, प्रोच्य तस्य निजे पुरे । अभ्यर्थ्य सादरं श्रेष्ठिश्रेष्ठता तत्र निर्ममे ॥ ७७ ॥ सन्मान्य वस्त्रालङ्कारैः, स्वप्रधानजनैः समम् । नृपेण पुण्यसारस्तु, प्रहितः स्वगृहं ययौ ॥ ७८ ॥ Jain Education For Private & Personal Use Only djainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy