SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ धर्म. अथ सोत्थाय तं स्वप्नं, पत्युरग्रेन्यवेदयत् । सद्भाग्यस्ते सुतो भावीत्यभ्यनन्दत्स तां मुदा ॥ ५८ ॥ ॥१७॥क्रमात्पुत्रः समुत्पेदे, तस्या लक्षणलक्षितः । हृष्टस्तजन्मनि श्रेष्ठी, वर्धापनमचीकरत् ॥ ५९॥ अगण्यपुण्यतां तस्य. ज्ञात्वा स्वप्नानुसारतः । पुण्यसार इति श्रेष्ठी, सुतस्य विदधेऽभिधाम् ॥ ५६० ॥ पद्मात् पद्मान्तरं हंस. इव गच्छन्सरोवरे । करात्करान्तरं तत्र, स व्रजन्नभ्यवर्द्धत ॥ ६१ ॥ श्रेष्ठी ग्रासावियुक्तोऽभूत्तजन्मदिवसादपि । स्यादभङ्गुरभाग्यानां, योगे किं किं न वा शुभम् ? ॥१२॥ स जग्राहोचिते काले, कला योग्याः कलागुरोः । पुपोष रूपलावण्ये, विशेषाद्यौवनोन्मुखः ॥१३॥ अथान्यस्येभ्यस्य सुतां रूपादिगुणविश्रुताम् । धन्याभिधानां तां श्रेष्ठी, महा पर्यणाययत् ॥६४॥ यतः-प्रियानकला कलहेन वर्जिता, प्रियंवदा निर्मलशीलशालिनी। ___ स्वरूपसौन्दर्यविनिर्जिताप्सरा, भवेत्सुपुण्यस्य गृहे सुगेहिनी ॥ ६५ ॥ पुण्यसारोऽन्यदा रात्रौ, सुखसुप्तः स्ववेश्मनि । अहं त्वद्हमेष्यामीत्युक्तो देव्या श्रिया स्वयम् ॥६६॥ प्रातः समुत्थितो वेश्म, चतुष्कोणेषु सोऽद्भुतान् । सौवर्णकलशान् वीक्ष्य, चेतस्येवमचिन्तयत् ॥६७॥ ॥१७॥ Jain Education Ftional For Private Personel Use Only Millyw.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy