SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ गुरुरूचे चतुर्धापि, धर्मः संसेवितो नृप! | नानाविधं फलं दत्ते, परं भावेन संयुतः ॥ ४९॥ यतः-दानं दारिद्यनाशाय, शीलं दुर्गतिनाशनम्। तपः कर्मविनाशाय, भावना भवनाशिनी ॥५५०॥ दानं तपो देवपूजा, दाक्षिण्यं दक्षता दमः । शीलं विवेक इत्यादि, धर्माङ्गानि विदुर्बुधाः ॥ ५१ ॥ यथा पञ्चेन्द्रियः प्राणी, अङ्गोपाङ्गैविराजते । तथा जिनोक्तधर्मोऽयं, साङ्गे शोभते भृशम् ॥ ५२ ॥ कन्दः कल्याणवल्लयाः सकलसुखफलप्रापणे कल्पवृक्षो,दारिद्रोद्दीप्तदावानलशमनधनो रोगनाशैकवैद्यः। श्रेय श्रीवश्यमन्त्रो विगलितकलुषो भीमसंसारसिन्धोस्तारे पोतायमानो जिनपतिगदितः सेवनीयो त्र धर्मः ॥ ५३॥ यथाऽर्जितं पुरा पुण्यं, पुण्यसारेण धीमता । श्रुत्वोदाहरणं तस्याराध्यं पुण्यं सदा तथा ॥ ५४॥ तथाहि-पुरं साङ्केतमित्यस्ति, श्रियां सङ्केतभूरिव । तत्र नाम्ना तथा धाम्नाऽप्यभृद्भानुप्रभो नृपः ॥५॥ तत्राभवन्मितघनो, धनमित्राऽभिधो गृही । गुणैरप्यनुरूपाऽऽसीत्, धनश्रीस्तत्प्रिया वरा ॥ ५६ ॥ एकदा सा निशाशेषेऽनेकरत्नोत्कराद्भुतम् । हेमकुम्भं विलोक्यास्ये, प्रविशन्तमजागरीत् ॥ ५७ ॥ Jain Education anal For Private & Personel Use Only diw.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy