SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ महा धर्म. अन्यदा तद्वने देवादावाग्निः समजायत । प्राक् कृतेषु स्थण्डिलेषु, दवभीतो ययौ गजः ॥३८॥ ॥१७॥/वनसत्वैः स्थण्डिलानि, पूरितानि तदा भृशम् । पञ्चमस्थण्डिलस्यान्ते, प्रियायुक्तः स्थितो गजः ३९ मा यान्तु मद्भयत्रस्ताः, अमी जीवा दवानले । दयया चिन्तयित्वेति, तस्थौ संवृत्त्य तत्र सः॥५४०॥ वातेन प्रेरिता तत्र, दवज्वाला समागता । वह्निना हस्तिनी दग्धा, स्थण्डिले कूणसंस्थिता ॥४१॥ हस्ती पानीयमानीय, मोहसिषेच हस्तिनीम् । कुर्वन् गमागमौ सोऽपि, पश्चाद्दग्धो दवाग्निना ॥४॥ नमस्कारं स्मरन्तौ तौ, विधायानशनं तदा | धर्मध्यानपरौ भूत्वा, सौधर्मेऽभवतां सुरौ ॥ ४३॥ च्युत्वाऽथ स्वर्गतो राजन, ! जातस्त्वं पुरुषोत्तमः । जाता च हस्तिनीजीवः, कमलश्रीस्तव प्रिया ४४ विद्याधरभवे मोहात्परनारी हृता त्वया। प्राप्तस्त्वं कर्मणा तेन, तिर्यग्योनिस्तया सह ॥ ४५ ॥ तपोदयादिकं पुण्यं, यत्कृतं पूर्वजन्मसु । तेन त्वं प्रेयसीयुक्तः, प्राप राज्यादिकं सुखम् ॥ ४६ ॥ पूर्व जातिस्मृतित्वेन, जानाति प्राग्भवं नृपः । विशेषाद्गुरुवाक्येन, सर्व सत्यममन्यत ॥ ४७ ॥ पुनः पुण्यफलं ज्ञातुं, विशेषात्पृष्टवान्नृपः । दानशीलतपोभावमध्ये कस्याधिकं फलम् ? ॥ ४८ ॥ ॥१७४॥ Jain Education a l For Private 8 Personal Use Only XT.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy