SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Jain Education 1 | यतः - अर्द्धाङ्गे गिरिजा विभर्त्तिं गिरिशो विष्णुर्वहत्यन्वहं शस्त्रश्रेणिमथाक्षसूत्रवलयं धत्ते च पद्मासनः। पौलोमी चरणाहतिं च सहते धृष्टः सहस्रेक्षणस्तन्मोहस्य विजृम्भितं निगदितं तिर्यग्जने का कथा ? २८ |स करी करिणीयुक्तश्चिक्रीड स्वेच्छया वने । रेवोत्तङ्गतरङ्गैश्व, चकार जलखेलनम् ॥ २९ ॥ अन्यदा तद्वने कश्चित् मुनिर्ज्ञानी समागतः । मुनिं दृष्ट्वा गजः क्रोधाद्, दधावे तं प्रति द्रुतम् ५३० मुनिना स तपोलब्ध्या, स्तम्भितः कुञ्जरस्तदा । स शान्तो मुनिपादाब्जान्, ववन्दे हस्तिनीयुतः ३१ ॥ स पूर्वभववृत्तान्तैः साधुना प्रतिबोधितः । सम्यक्त्वं च तदा भेजे, जातिस्मृत्या प्रियायुतः ॥ ३२ ॥ सचित्ततृणकाष्ठानि, पत्रपुष्पफलानि च । वर्जयामास नागेन्द्रो भुङ्क्ते स्म प्रासुकानि च ॥ ३३ ॥ ईर्यासमितिसंयुक्तो, दयया सञ्चचार सः । शान्तात्मा च तपश्चक्रे, दुस्सहं पूर्वजन्मवत् ॥ ३४ ॥ तत्याज हस्तिनीसङ्ग, मुनिवाक्यप्रबोधतः । जातिस्मृत्यनुभावात्स, पुण्यमेवमपालयत् ॥ ३५ ॥ तद्वने श्रीयुगादीशप्रासादोऽभूत्सतोरणः । कृतो मलयदेव्या यो, जिनाञ्चर्थं विनोदकृत् ॥ ३६ ॥ स हस्ती हस्तिनीयुक्तो, जिनवन्दनहेतवे । नित्यं जिनालये याति, कालमेवं निनाय च ॥ ३७ ॥ For Private & Personal Use Only w.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy