SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ॥ १७२ ॥ Jain Education Inter T सार्थपो मुनिपार्श्वे स, समुदाययुतोऽवसत् । क्षुत्तृषार्त्तिर्मुनेर्देहे, सृष्टा देवेन मायया ॥ ९६ ॥ शीतलाम्बुकरम्बाद्यं, मुनेरग्रे त्वढौकयत् । नाग्रहीत्तन्मुनिः किञ्चित्, यत्षण्मासीतपोविधिः ॥ ९७ ॥ यामिन्यद्धे च देवेनातपं कृत्वेति भाषितम् । ममोपरि दयां कृत्वा, कायोत्सर्ग हि पारय ॥ ९८ ॥ सर्व्वान्नं प्रासुकं मेऽस्ति, त्वं तु प्रासङ्गिकोऽतिथिः । तच्छ्रुत्वा मुनिनाऽचिन्ति, निशायां कथमातपः १९९ मायया केन देवेन, क्रियते मत्परीक्षणम् । कायोत्सर्ग ततो नाहं पारयाम्यवधिं विना ॥ ५०० ॥ चतुर्विधाऽऽहारमुक्तः, कायोत्सर्गे स्थितो मुनिः । देवेन व्याघ्रसर्पाणामुपसर्गाः कृता घनाः ॥ १ ॥ नोपसर्गैश्च चालर्षिर्विरराम स्वयं सुरः । सानुकूलो हृष्टमनाः, प्रगटीभूय चावदत् ॥ २ ॥ प्रभो ! यादृक् सुरेन्द्रेण वर्णितस्त्वं ततोऽधिकः । परीक्षितो मया यत्त्वं क्षन्तव्यं तन्महामुने ! ॥ ३ ॥ किं वातैः प्रबलैर्विश्वैर्मेरुशृङ्गं हि चालितम् । इति स्तुत्वा पुष्पवृष्टिं कृत्वा नत्वा सुरो गतः ॥ ४ ॥ षण्मासान्ते संवरर्षिश्वकार विधिपारणम् । तपसा लब्धयो जाता, अणिमाद्या अनेकशः ॥ ५ ॥ चिरं तीव्रतपस्तप्त्वा प्रान्ते पक्षोपवासतः । मृत्वाऽभूत्सप्तमे कल्पे, इन्द्रसामानिकः सुरः ॥ 1 ६ ॥ For Private & Personal Use Only महा. ॥ १७२॥ gelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy