SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte वैताढ्ये दक्षिणश्रेण्यां पुरी क्षेमकराऽभवत् । गुणचूडनृपस्तत्र, राज्ञी मदनवल्लिका ॥ ७ ॥ | सप्तदश सागरायुर्भुक्त्वाऽथ स्वर्गतश्च्युतः । देवः संवरजीवः स, राज्ञीकुक्षाववातरत् ॥ ८ ॥ समये सुषुवे साऽथ रणचूडाभिघं सुतम् । क्रमेण वर्द्धितः सोऽपि जज्ञे विद्याविशारदः ॥ ९ ॥ अन्यदा रणचूडेन, व्रजता व्योम्नि कस्यचित् । वाणारस्यां युवत्येका, दृष्टा सद्रूपधारिणी ॥ ५१० ॥ रागतो विद्यया हृत्वा सा नीता निजसद्मनि । विषयासक्तचित्तेन कृता प्रियतमा निजा ॥ ११ ॥ यतः - किं न कुर्य्यान्न किं दद्यात् किं न गच्छेत् न किं वदेत् । क्व च न प्रविशेज्जन्तुर्बोधितो विषयेच्छया १२ तीव्राभिलाषतोऽत्यन्तं सेवे विषयजं (सिषेवे भोगजं) सुखम् । कालेन कियता तस्य, देहत्रुटिरभूत्ततः १३ राजयक्ष्मादिरोगाश्च तस्याने जज्ञिरे भृशम् । अतिसम्भोगतो यस्माद्रोगोत्पत्तिः प्रकीर्त्तिता ॥ १४ ॥ यतः - कम्पः स्वेदः श्रमो मूर्च्छा, भ्रभिग्लानिर्वलक्षयः । राजयक्ष्मादिरोगाश्च भवेयुर्मैथुनोत्थिताः १५ यतः - अत्यासन्ना विनाशाय, दूरस्था न फलप्रदाः । सेव्या मध्यमभावेन, राजवह्निगुरुस्त्रियः ॥ १६ ॥ अतो हि धीमतां प्रोक्ता, स्त्रीसेवासमता शुभा । बह्वी क्षयाय विज्ञेया, वदन्तीति विचक्षणाः ॥ १७ ॥ For Private & Personal Use Only lainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy