SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ क्षेत्रस्वभावजं नित्यमन्योऽन्येन कृतं तु यत् । वेदयन्ति महादुःखं नारका गाढमत्सराः ॥ ८६ ॥ ज्वरोष्णदाहो भयशोकतृष्णा, कण्डूबुभुक्षा अपि पारवश्यम् । शीतं पुनर्नारकिणामतीव, दश प्र काराः प्रभवन्ति पीडाः ॥ ८७ ॥ | तिरिया कसंकुसारानिवाय वहबन्धमारणसयाई । नवि इहयं पावंता, परत्थ जइ नियमिया हु एवं संसारदुःखानि श्रुत्वा वैराग्यतोऽथ सः । खड्गधारासमं तीव्रं, नी (ला) त्वा व्रतमपालयत् ॥ ८९ ॥ गुरुशिक्षां दधच्छीर्षे, गीतार्थः सोऽभवत् क्रमात् । तपांसि प्रतिमादीनि सर्वाण्येवाकरोत्पुनः ॥ ४९० ॥ | जिनकल्पधरो जातः, षाण्मासिकतपोधरः । कायोत्सर्गेऽन्यदाऽरण्ये, स्थितोऽसौ मेरुवत्स्थिरः ॥ ९१ ॥ स्वर्गे तदा सुरेशेन, तत्स्थिरत्वं प्रशंसितम् । मिथ्यादृष्टिः सुरः कश्चित्तत्प्रशंसां न श्रद्दधौ ॥ ९२ ॥ तेनैवं कथितं चाहं चालयामि द्रुतं मुनिम् । मनुजे किं ? स्थिरत्वं यद्देवैरपि न चाल्यते ? ॥ ९३ ॥ इत्युक्त्वाऽऽगात्सुरस्तत्र, स मुनिर्यत्र संस्थितः । कृतस्तु मायया सार्थो, ग्रीष्मकालोऽवतारितः ॥ ९४ ॥ मित्रस्यापि कठोरत्वं, तृष्णावृद्धी रसत्रुटिः । जलवल्लभता ग्रीष्मे, कलिकाल इवाभवत् ॥ ९५ ॥ Jain Education ational For Private & Personal Use Only www.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy