SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ॥१७॥ यतः-दुखं स्त्रीकुक्षिमध्ये प्रथममिह भवे गर्भवासे नराणां, बालत्वे चापि दुःखं मलमलिनतनुः स्त्रीपयःपानमिश्रम् । तारुण्ये चापि दुखं भवति विरहजं वृद्धभावोऽप्यसारः, संसारे रे मनुष्या ! वदत यदि सुखं स्वल्पमप्यस्ति किञ्चित् ॥ ७८ ॥ संसार एष कूपः सलिलानि विपत्तिजन्मदुःखानि । इह धर्म एव रज्जुस्तस्मादुद्धरति निर्ममान्॥७९॥ दित्सा स्वल्पधनस्याप्यवष्टम्भः कष्टितस्य च । गतायुषोऽपि धीरत्वं, स्वभावोऽयं महात्मनः॥ ४८०॥ संवरः स्माह हे साधो !, दुःखं मेऽत्र भवे महत् । मुनिर्जगाद नृभवे, दुःखमेतत्कियत्तव ? ॥ ८१ ॥ नरके यानि दुःखानि, जीवैर्भुक्तान्यनन्तशः। लेशतस्तानि कथ्यन्ते, सावधानतया शृणु ॥ ८॥ यतः-खण्डयन्ते तिलशो यत्र, कुट्टयन्ते वज्रमुद्गरैः । पच्यन्ते वह्निकुम्भीषु, छिद्यन्ते च शितासिभिः८३. करपत्रैर्विदार्यन्ते, भष्यन्ते लोककुकुरैः । महायात्रेषु पीडयन्ते, पाट्यन्ते, गलितं वपुः ॥ ८ ॥ अयोरथेषु योज्यन्ते, आस्फाल्यन्ते शिलातले । क्षिप्यन्ते वह्निकुण्डेषु, स्वाप्यन्ते तप्तधूलिषु ॥ ८५ ॥ ॥१७॥ Join Education into a For Private & Personal Use Only inelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy