SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ jek महा. ॥१६९॥ समत्वं भज भूतेषु, निर्ममत्वं विचिन्तय । अपाकृत्य मनःशल्यं, भावशुद्धिं समाश्रय ॥ ४२ ॥ श्रुत्वेति देशनां राजा, भृशं वैराग्यरञ्जितः । पृच्छति स्म निजं पूर्वभवं पुण्यं च यत्कृतम् ॥ ४३ ॥ गुरुरूचे महीनाथ !, शृणु जन्मान्तराणि ते । यत्तपसाऽर्जितं पुण्यं, स्फुटं तत्कथयामि ते ॥४४॥ क्षेत्रेऽत्रैव पुरी रम्या, नरकान्ताभिधाऽभवत् । नरसेनो नृपस्तत्र, कुअरश्रेणिशोभितः॥ ४५ ॥ तत्पुरे गुणसारोऽभूत्सार्थवाहो महाधनी । गुणश्रीस्तत्प्रिया चासीत्पतिचित्तानुवर्तिनी ॥ ४६ ॥ दिनैः कतिपयैस्तस्य, दुईशायोगतः खलु। नरकच्युतैकजन्तुर्गुणश्रीकुक्षिमागतः ॥ ४७॥ तस्योत्पत्तिवशात्साऽथ, दोहदानशुभान् दधौ । पर्यधान्मलिनं वस्त्रं, कुत्सितान्नं च रोचते ॥ ४८॥ दानं नाहं ददाम्येव, कथमायान्ति मद्हे । भिक्षुका इत्यभूत्तस्या, उक्तिर्गर्भानुभावतः ॥४९॥ अभाग्यवशतस्तस्या, गुणसारः पतिर्मृतः। सकलापि गता लक्ष्मीर्जलस्थलगृहस्थिता ॥ ४५० ॥ यद् यस्य चटितं हस्ते, गृहीतं तेन तद्धनम् । अथ तस्मिन्सुते जाते, मृता माता कियद्दिनैः ॥ ५१ ॥ कशः कपिलकेशश्च, कुब्जो वामन एव च । कुरूपो दुर्भगो बालः, सोऽभवत् पूर्वपातकात् ॥ ५२ ॥ ॥१६॥ Jain Education For Private Personal Use Only N inelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy