________________
किं वा न प्रियमप्रियेऽपि हि जने कुर्वन्ति जल्पन्ति च ॥ १४ ॥ स्वगृहेऽहं गमिष्यामीत्युक्त्वा राजसुतां प्रति । नारीरूपधरो भूपोऽप्याजगाम पुरान्तरे ॥ १५॥ छोटयित्वा जटीं भूपो, बभूव निजरूपवान् । राजानमागतं ज्ञात्वा, चक्रे पु· जनैर्महः ॥ १६ ॥ सकला मन्त्रिसामन्ता, आगत्य प्रणिपत्य च । नृपं वर्धापयामासुहर्षपूरितमानसाः ॥ १७ ॥ अथास्थानं समाश्रित्य, ज्योतिःशास्त्रविदं द्विजम् । आकार्य च विवाहस्य, लग्नं पप्रच्छ भूपतिः ॥१८॥al तेनालोक्य शुभं चाष्टादशदोषविवर्जितम् । रेखाशुद्धं वलोपेतं, दत्तं लग्नं निशामुखे ॥ १९ ॥ सुमतिश्च सुबुद्धिश्च, द्वौ मिलित्वा प्रमोदतः । सामग्री चक्रतुः सर्वो, विवाहे वरकन्ययोः ॥ ४२०॥ मनोरथशतैः सार्ध, भूभुजा पुण्ययोगतः। दृष्टा स्वप्नेऽपि सा साक्षात्, परिणीता हि पद्मिनी ॥ २१ ॥ मासमेकं महोत्साहात्, सम्मान्य स्वजनान्नृपः । यथायोग्यं ददौ तेभ्यो, वस्त्रालङ्करणादिकम् ॥ २२॥ सुबुद्धिसचिवाद्या ये, येऽन्ये प्राघूर्णका अपि । सम्पूज्य परया भक्त्या, तान् सर्वान् विससर्ज सः ॥२३॥ पूर्वं पद्मावती पट्टदेवी राज्ञोऽभवद्यथा । लब्धा स्वप्नानुसारेण, कमलश्रीरभूत्तथा ॥ २४ ॥
Jain Education
For Private & Personel Use Only
Alw.jainelibrary.org