SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ धर्म. ॥१६७॥ दाराः परिभवकारा, बन्धुजनो बन्धनं विषं विषयाः । कोऽयं जनस्य मोहो, ये रिपवस्तेषु सुहृदाशा ६ अतः प्राग्भवजो मोहो, मोचितोऽपि न मुञ्चति । तेनाहं पट्टमादाय, स्वामिवाक्यादिहागतः ॥ ७ ॥ ततो हर्षभरात्सोचे, जातिस्मृत्येति वेदम्यहम् । सैव हस्तिन्यहं जाता, प्राक्पतिर्मे नृपः स तु ॥ ८ ॥ सा तस्मिन् रागिणी प्रोक्त्वा, सम्बन्धं पितरं जगौ । पद्मिनीपुरभूपेन, समं मां त्वं विवाहय ॥ ९ ॥ दृष्टचित्तेन राज्ञाऽथ, कृता सामग्रिकाऽखिला । महर्ध्या सर्वसारेण, सुबुद्धिसचिवान्विता ॥ ४१० ॥ शुभेऽह्नि कमलश्रीः सा, प्रहिता तां पुरीं प्रति । क्रमात् सुलोचनायुक्ता, प्राप्ता च पद्मिनीपुरम् ॥११॥ तत्रोद्याने पटकुट्यां स्थिता सैन्यसमन्विता । पुरे प्रकटिता वाणी, कन्याऽऽयाता स्वयंवरा ॥ १२ ॥ सुमतिः प्राक् पुरे गत्वा, वाद्यनिर्घोष पूर्वकम् । ससैन्यः सम्मुखं गत्वा, तस्या आतिथ्यमा तनोत् ॥१३॥ यतः - उत्तिष्ठन्ति निजासनान्नतशिरः प्रच्छन्ति च स्वागतं, सन्तुष्यन्ति हसन्ति यान्ति च चिरं प्रेमाञ्चितां सङ्गतिम् । सिञ्चन्तो वचनामृतेन हृदयं सन्तः समीपागते, Jain Education national For Private & Personal Use Only महा. ॥१६७॥ www.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy