SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ।।१६६ ।। प्रियां प्रज्वलितां प्रेक्ष्य, गतोऽनागो म्बुहेतवे । नीरमानीय ता दग्धां सिञ्चति स्म द्रुतं करी ॥ ८९ ॥ | पुनर्याति तथाऽऽयाति, नीरं नीत्वा स वेगतः । एवं गमागमौ कुर्धन्, दवदग्धो मृतो गजः ॥ ३९० ॥ कृतानि हस्तिहस्तिन्योरेवं रूपाणि पट्टके । शिक्षां दत्त्वा ददौ राजा, पहं सुमतिमन्त्रिणे ॥ ९१ ॥ तेन चतुष्पथे पट्टो, मण्डितो महिमान्वितः । किमेतदिति यः कोऽपि, पृच्छेत्तदेति वक्त्यसौ ॥ ९२ ॥ मत्स्वामिचरितं ह्येतन्महाश्चर्यविधायकम् । परम्परागता पट्टवार्त्ताऽथ कन्यया श्रुता ॥ ९३ ॥ आकारितस्तया तत्रागतोऽसौ पट्टहस्तकः । दृष्टश्च चित्रितः पट्टोऽटवी दृष्टा दवान्विता ॥ ९४ ॥ दृष्टानि गजरूपाणि ज्ञातं तद्वृत्तमात्मनः । सा तं पूर्वपतिं वीक्ष्य, रुरोदोच्चैः पुनः पुनः ॥ ९५ ॥ अग्निदग्धं गजं दृष्ट्वा, मुक्त्वा च नरमत्सरम् । दध्यौ सा मम कार्ये हा, स्नेहबद्धो मृतः पतिः ॥ ९६ ॥ स्नेहो मूलमनर्थानां, स्नेहः दुःखपरम्परा । स्नेहेन सहते जन्तुर्मथनं दधिवत्सदा ॥ ९७ ॥ यतः - प्रियाकृते शृङ्खलतां मुरारिः, शशी कलङ्कं रविरङ्गतक्षाम् । देहार्द्धतां शम्भुरुचकार, प्रेम्णो विकारः खलु दुर्निवारः ॥ ९८ ॥ Jain Educationational For Private & Personal Use Only महा. ।। १६६।। www.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy