SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ नारीरूपधरो भूपः, पुनः पप्रच्छ कुञ्जरे। दृष्टे कथं नरद्वेषः, प्राग्भवः कीदृशश्च ते ॥ ३६० ॥ कमलश्रीस्ततोऽभाणीत्, शृणु त्वं हे सुलोचने ! । मम पूर्वभवं येन, जाताहं नररोषिणी ॥६१॥ मलयाद्रौ महाटव्यां, माणिभद्राभिधः करी । प्रियङ्करीति नाम्नाऽभूत्करिणी तस्य च प्रिया ॥ ६२ ॥ स्वेच्छया क्रीडतस्तौ द्वौ, मिथः प्रेमपरायणौ । अन्यदा दैवयोगेन, दवो लग्नो महान वने ॥ ६३॥ तत्राटव्यां स्थण्डिलानि, पञ्च सन्ति पुरा तदा । तृणवृक्षविहीनानि, दवदुःखं हि तत्र न ॥ ६४ ॥ दवं दृष्टा स नागेन्द्रः, प्रनष्टः करिणीयुतः। प्राक् स्थण्डिले गतौ यावत्तावत्तत्पूर्णमङ्गिभिः ॥ ६५॥ अग्निभीतान् वनचरान् , तत्र तान् वीक्ष्य हस्तिराट् । कृत्वा तेषां दयां मुक्त्वा, स्थण्डिलं तत्पुरो ययौ ६६॥ एवं दृष्ट्वा स्थण्डिलेषु, द्वितीयादिषु देहिनः । स हस्ती हस्तिनीयुक्तो, गतः पञ्चममण्डले ॥ ६७ ॥ तदप्यरण्यजैर्जीवैः, शशषड्निमृगादिभिः । पूर्णं दृष्ट्वा प्रियायुक्तस्तस्य कूणे स्थितो गजः ॥ ६८ ॥ दावाग्निर्विषमो जातो, वातेन प्रेरितः पुनः । तेनारण्यं निमेषेण, कृतं प्रज्वाल्य भस्मसात् ॥ ६९ ॥ वनानि दहतो वह्नः, सखा भवति मारुतः। स एव दीपनाशाय, कृशे कस्यास्ति सौहृदम् ? ॥३७०॥ Jain Educat i onal For Private Personal Use Only ww.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy