SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ मन्मिलनाय सोत्कण्ठा, पद्मिनीपुरतोऽधुना । समायाता च पार्श्वे मे, दिनान स्थास्यति कत्यपि ॥४९॥ महा. श्रुत्वैवं कमलश्रीः सा, तां परिव्राजकी जगौ । मातस्ते कथ्यते किश्चिन्मदुक्तं यदि मन्यसे ॥३५०॥ || तव या भ्रातृजा सा मे, भगिनी तदिमां मम । पार्श्वे मुञ्च यथा यान्ति, दिवसा वार्तया सुखम् ॥११॥ तपस्विन्युपदेशेन, तया नीता निजे गृहे । द्वे अपि क्रीडतः प्रीत्या, गोष्ठीञ्च कुरुते मिथः ॥ ५२ ॥ भोजनादि तया साकं, कुरुते राजनन्दनी । तपस्विन्याश्रमे साढै, ते च यातः प्रमोदतः ॥ ५३ ॥ कुरुते सत्कलाभ्यासं, मिथः स्नेहविमोहिते। कतिचिद्वासरानेवं, गमयामासतुः सुखम् ॥ ५४ ॥ सुलोचनान्यदाऽवादीत्प्रीत्यां राजसुतां प्रति । कथं मातृपितृभ्यां ते, नोद्वाहो यौवने कृतः ॥ ५५ ॥ रूपं रम्यं वयो नव्यमस्ति विज्ञानकौशलम् । आरोग्यं तर्हि तारुण्यं, त्वं हारयसि किं मुधा ? ॥५६॥ ततो नृपसुताप्याख्यत्, बाप्पसंपूर्णलोचना । मम चेद्व्यभगिनी, तत्त्वं पुंनाम मा वद ॥ ५७॥ ॥१६॥ ऊचे सुलोचना भद्रे !, पुरुषद्वेषकारणम् । वद यत्कौतुकं मेऽस्ति, कन्योचे शृणु सुन्दरि ! ॥ ५८ ॥ पितृपट्टगजे दृष्टेऽभूजातिस्मरणं मम । ज्ञात्वा प्राग्भवजां वार्ता, जाताहं नरमत्सरा ॥ ॥ ५९ ॥ For Private 3 Personal Use Only W Jain Education ww.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy