________________
तदस्मान् शुभ्रवपुषः, कथं त्यजसि लंपटे ! । त्वदीयं चरितं सर्वे, वयं जानीमहे यतः ॥ ३२० ॥ इति प्रत्यक्षदृष्टान्तात्, कुपितो वसुधाधिपः। राज्ञीमाकर्षयामास, समं तेनापराधिना ॥ २१ ॥ दुःखखानिरगाधेयं, कलेर्मूलं भयस्य च । पापबीजं शुचां कन्दोऽनभ्राऽशनिनितम्बिनी ॥ २२ ॥ ननु सन्ति जीवलोके, काश्चिच्छमशीलसंयमोपेताः । निजवंशतिलकभूताः, श्रुतसत्यसमन्वि
ता वनिताः ॥२३॥ यावन्नायाति मे नारी, तावत्कञ्चित्करोम्यहम् । उपायं प्रथमं येन, पश्चात्तापो भवेन्न मे ॥ २४ ॥ ध्यात्वैवं खेंचरेणाथ, सप्रभावा महौषधी । समानीय द्रुतं बद्धा, सुप्तस्य नृपतेः करे ॥ २५ ॥ तत्प्रभावात् क्षणेनैव, नारीरूपो नृपोऽभवत् । कृत्वैवं खेचरो मध्ये, ययौ देवार्चनाकृते ॥ २६ ॥ अथ विद्याधरा तस्य, भार्या तत्रागता तदा । स नृपः प्रमदारूपधरः सुप्तस्तयेक्षितः ॥ २७ ॥ देवकन्यासमं वीक्ष्य, तद्रपं विस्मिता हृदि । चिन्तामिति चकारासौ, खेचरी तुच्छमानसा ॥ २८ ॥ मुक्त्वा हि मामिमां नारी, वल्लभो मे करिष्यति । पुरुषा भ्रमरा एव, वर्ण्यन्ते वसुधातले ॥२९॥
Jan Education
on
For Private
Personel Use Only
Livw.jainelibrary.org