________________
धर्म. इत्थं कथासुदृष्टान्तैर्मासमेकं नृपप्रिया । बोधिताऽपि हि नाबोधि, यतः स्त्रीषु कुतो मतिः ? ॥९॥ महा. ॥१६२॥ मत्वा वारितवामां ता, वधूस्तत्र नृपाज्ञया । गर्तामखानयत्पृथ्वीं, हास्यसङ्केतहेतवे ॥ ३१० ॥
समाहूय मृगावत्या, दासीवृन्दं च सावदत् । रेरे शृणुत मद्वाक्यं, सुधारससहोदरम् ॥ ११ ॥ क्षिप्तो यस्या दृषत् शीघ्रं, ग तीरं गमिष्यति । तस्य दास्यति हृष्टात्मा, मुक्ताहारं महीपतिः॥१२॥ तत्रैकवर्ज सर्वासां, गन्न्तर्दृषदोऽपतत् । ततो राज्ञी वधूः प्राह, विद्धयेनं त्वं निदर्शनम् ॥ १३ ॥ सरोषा राजरमणी. हृन्नेत्रान्धा पुनर्जगौ । वद द्वाग् मीनहासस्य, कारणं दुःखवारणम् ॥१४॥ वक्ष्येऽहं ह्ययस्तनदिने, देवि ! चिन्तय चेतसा । सुभगं गुप्तमेव स्यात्, कार्यं नारीवराङ्गवत् ॥ १५ ॥ द्वितीयेऽपि दिने बुद्धा, राजपत्नी कृताग्रहाम् । भूपालमालपद्विप्रवधूः सुदृढमानसा ॥ १६ ॥ देव्याश्चेटीः समग्रास्त्वं, विवस्त्राः कुरु भूपते !। यथा जानासि मीनस्य, हसनं वचनं विना ॥ १७॥ ॥१६२॥ कुर्वन् तदुक्तं साश्चर्य, तमेकं पुरुषं दृशा । ददर्श श्यामलतद्वं, हीनवंशं विशांपतिः॥ १८ ॥ स्वामिन्नसौ स्त्रीवेषेण, भुङ्क्ते देवीं मृगावतीम् । तेन मीनो महीनाथ !, देवीवाचाऽहसद्भशम ॥१९॥
Jain Education
a
l
For Private & Personel Use Only
CHjainelibrary.org
HOI