________________
देवि ! गृह्णन्ति कार्यस्य, ये पारं पुरुषाधमाः। ते सीदन्ति क्षणादेव, मूर्खद्विजसुताविव ॥ ९८ ॥ कौ तौ द्विजसुतौ मुग्धे !, पृष्टा सा भावकोविदा । महिष्याः प्रतिबोधार्थमाचचक्षे कथामिमाम् ॥१९॥ नन्दिग्रामे द्विजः कश्चित्तस्य स्तः स्तनयावुभौ । तौ भिक्षया स्वदिवसानतिचक्रमतुः क्रमात् ॥३०॥ एकदा कापि गच्छन्तौ, करम्बपुटवाहिनीम् । वाहिनीं वीक्ष्य तौ विप्रो, मुदा गाढं ननर्त्ततुः ॥ १ ॥ करम्बकं तु तत्रैव, भक्षयन्तौ बुभुक्षया । कदेति दध्यतुश्चित्ते, कुतोऽसौ पुटिकागमः ॥ २॥ नदीतटेन यान्तौ तौ, नरमेकं ददर्शतुः । मोचयन्तं पत्रपात्री, करम्बकभृतां जले ॥३॥ ताभ्यामागत्य तत्पार्श्वे, पुटिकामोक्षकारणम् । पृष्टं निवेदितं तेन, यथातथ्यं तयोदितम् ॥ ४ ॥ मदीयभर्तुरुदरे, व्रणमास्ते सवेदनम् । अतः पीडोपशान्त्यर्थ, करम्बस्तत्र बध्यते ॥ ५ ॥ यथा नोल्लङ्घते कोऽपि, वाहिन्यां वाह्यते ततः। श्रुत्वेति तन्मुखाद्वृत्तं, विषादं प्रापतुर्द्विजो ॥६॥ घिगिदं किं कृतं कर्म, सर्वजनविगर्हितम् । अतो विषण्णौ तौ नद्यां, पतित्वा मृत्युमापतुः ॥७॥ कार्यस्य कारणं तस्मान्न द्रष्टव्यं नृपप्रिये ! । विमर्शय कथामेना, भाषिष्ये यद् हसत्न्यमी ॥ ८॥
Jan Education
For Private Personel Use Only
jainelibrary.org