SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ अस्मिन दृष्टे स्मृता साऽद्य, स्मृतौ च पितरावपि । तन्मेऽभून्मानसे दुःखं, विरहात्तेन रोदिमि ॥४६॥ मन्त्र्यूचे वद भोः पान्थ!, किंनाम्नी क्वास्ति सा पुरी। को भूपस्तत्र वार्ता चाऽपूर्वा काचित्प्रवर्त्तते?४७| पथिकोऽबादीन्मन्त्रीश! सुमतेऽस्त्युत्तरापथे । प्रियङ्करा पुरी तत्र, राजा श्रीसत्यशेखरः ॥ ४८ ॥ सत्यश्रीरिति तस्यास्ति, पट्टदेवी च देवता । शीलसन्नद्धसर्वाङ्गा, भाग्यसौभाग्यशोभिता ॥ १९ ॥ तत्कुक्षिसम्भवा पुत्री, कमलश्रीविचक्षणा । सीमन्तिनीजने सीमा, सा पुनर्नरमत्सरा ॥ २५० ॥ यतः-शशिनि खलु कलङ्कं कण्टकाः पद्मनाले, जलधिजलमपेयं पण्डिते निर्धनत्वम् । ___ दयितजनवियोगो दुर्भगत्वं सुरूपे, धनवति कृपणत्वं रत्नदोषी कृतान्तः ॥ ५१ ॥ तत्पुरः पूर्वदिग्भागेऽस्त्येकं देवकुलं वरम् । तस्यासन्ने मठे चास्ति, सत्परिव्राजिकाद्वयम् ॥ ५२ ॥ नानाविधमहाविद्यालब्धिसिद्धिविराजिता । मन्त्रतन्त्रादिकपट, सर्व जानाति चादिमा ॥ ५३ ॥ तन्मठात्पुरतोऽप्यस्ति, रम्यं हयं महोन्नतम् । राजपुत्र्यवसेत्तत्र, पुरं मुक्त्वा नरक्रुधा ॥ ५४ ॥ मठे तपस्विनीपार्श्वे, सा करोति गमागमौ । तत्र शिक्षति शास्त्राणि, दक्षा नवनवानि च ॥ ५५ ॥ Jain Education to For Private & Personel Use Only Slaw.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy