SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ धर्म. ॥१५८ ।। Jain Education I आभीरीः पुरुषोत्तमः सुरपतिस्तां तापसीं यद्भयात्, तं कन्दर्पमदमारचयत ब्रह्मास्त्रविस्फूर्जितैः ॥३६॥ यतः - पितुर्वा मातुर्वा स्मरति न कुलं कामविकला, महेला न स्नेहं न गणयति गेहं वरपितुः । न पात्रं नापात्रं परिहरति न खं च न परम्, कथं वा वैकल्ये विलसति सुचेष्टा विलसति ? ॥३७॥ विषस्य विषयाणां च दूरमत्यन्तमन्तरम् । उपभुक्तं विषं हन्ति, विषयाः स्मरणादपि ॥ ३८ ॥ त्वं मन्त्रिन् ! सुमतिर्नाम्ना, मतिं काञ्चिद्विचारय । कुरूपायं च कश्चित्तं, कन्याप्राप्तिर्यथा भवेत् ॥ ३९ ॥ स्वप्नदृष्टसमं तत्र, मन्त्रिणा रचितं पुरम् । तत्समीपे दानशाला, कारिता भोज्यहेतवे ॥ २४० ॥ भोजयित्वाऽत्र पृच्छ्यन्ते, नरा वैदेशिका इति । ईदृशं नगरं कापि, वीक्षितं वा श्रुतं न वा ॥ ४१ ॥ इत्थं प्रकुर्वतस्तस्य गतः कालः कियानपि । राज्यकार्याणि सर्वाणि करोति स्म नराधिपः ॥ ४२ ॥ अथान्यदा नरः कोऽप्यागतो देशान्तरादिह । भोजयित्वा च तत्तस्य, मन्त्रिणा दर्शितं पुरम् ॥ ४३ ॥ तद् दृष्ट्रा स रुरोदोच्चैः, मन्त्रिणा भणितं ततः । कथं रोदिषि तद् ब्रूहि, कारणं कौतुकं मम ॥ स प्रोचे मे जन्मभूमिरीदृशी नगरी परा । विद्यते तत्र मन्मातापितरौ सचिवेश्वरः ॥ ४५ ॥ ४४ ॥ For Private & Personal Use Only महा. ।। १५८।। jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy