________________
स्वप्नार्थेऽत्र पुना राजन्नेकोदाहरणं शृणु । कस्मिन्ग्रामे प्रदेशेऽभून्मठे कार्पटिकः पुरा ॥ २७ ॥ एकदा तेन निद्रायां, मठी पक्वान्नसंभृता । दृष्टा स्वप्ने जजागार, प्रभातेऽचिन्तयच्च सः ॥२८॥ अहो ! ममास्ति पक्वान्नं, कथं ग्रामो न भोज्यते । ग्राममध्ये ततो गत्वा, जनाः सर्वे निमन्त्रिताः॥२९॥ भोक्तुं तत्रागता लोकाः, सुप्तः कार्पटिकस्तदा । जनैः पृष्टं कथं सुप्तः, स्वप्नवार्ता प्ररूपिता ॥ २३०॥ हसित्वा ते जनाः सर्वे, गता निजनिजं गृहम् । ततः स्वप्नवशात्तस्य, जने जाता विडम्बना ॥३१॥ अतः स्वामिन्समुत्थाय, राजकार्याणि साधय । स्वप्नचिन्तां परित्यज्य, त्वं सुखीभव सर्वथा ॥३२॥ ततो धराधवः प्रोचे, हे मन्त्रिन्मम मानसम् । अत्यन्तं बाधते कामो, दुर्जयो यो हि दैत्यवत् ॥ ३३॥
यतः-तावन्नीतिविनीतत्वं, मतिः शीलं कुलीनता।
विवेकौचित्यपाण्डित्यं, लज्जा वा तत्त्वनिर्णयः॥ ३४॥ तपःशमदयादानं, संसाराद्यमित्यपि । सत्यं तत्त्वं च सन्तोषो, यावन्नो पीडयेत् स्मरः ॥३५॥ युग्मम् । कैवर्ती चकमे परासरमुनिर्गाधिः स्वपाकी विधिः, स्वां पुत्री गुरुकामिनी द्विजपतिः कुन्तीञ्चकन्यां रविः।
Jain Education
For Private
Personal use only
jainelibrary.org