SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ प्रजाः समावर्जयितुं समन्तात्, त्वं कोमलैरेव करैर्यतेथाः। पश्यातिसङ्ख्यैर्दिवि तारकाभिरासेव्यते शीतकरो न भानुः॥ ७ ॥ एवं शिक्षा शुभां दत्त्वा, सुतं संस्थाप्य निश्चलम् । स्वयं संयममाराध्य, नृपः प्राप शिवं क्रमात् ॥८ श्रीपुरुषोत्तमो भूपः, प्राप्य साम्राज्यसम्पदाम् । पितृशिक्षाप्रमाणेन, खप्रजाः समपालयत् ॥९॥ यतः-पर्जन्य इव भूतानामाधारः पृथिवीपतिः । विकलेऽपि हि पर्जन्ये, जीवितव्यं न भूपतौ ॥२१० ॥ अथान्यदा स भूमीशः, सुखशय्यासमाश्रितः । तुर्ययामे निशाशेष, ददर्श स्वप्नमीदृशम् ॥ ११ ॥ पृथ्व्यां परिभ्रमन् कस्मिन, पुरे राजा ययौ रयात् । तस्मिन् परिसरे देवकुले दृष्टा तपस्विनी ॥ १२ ॥ तत्समीपे महाहम्फे, प्रधानामेककन्यकाम् । सुरूपां सुभगां दृष्ट्वा, तस्यां जातः स रागवान् ॥ १३ ॥ तद्रूपं चिन्तयन् भूपस्तदा जागरितः प्रगे। यावत्संसदि नायाति, मन्त्री तत्राययौ तदा ॥ १४ ॥ सोऽवादीत्सुमतिः स्वामिन् !, सभा संपूर्यते न किम् । स्वप्नचिन्तापरो राजा, न दत्ते किञ्चिदुत्तरम्॥१५॥ पुनः सुमतिनामाऽसौ, सचिवःस्माह हे प्रभो !। अद्य चिन्तातुरः कस्मात्, दृश्यसे त्वं ? तदुच्यताम्॥१६॥ Jain Education l isa For Private & Personel Use Only Shw.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy