________________
"
तेभ्यो विज्ञातवृत्तान्तो, भूपः सन्मुखमागमत् । प्रावेशयञ्च नगरं तं महैर्मानकोविदः ॥ ९२ ॥ नृपप्रदत्तदेशोऽसौ लोके विख्यातविक्रमः । वाक्शूरो धीरसुभटः, पुण्यात्प्राप परां श्रियम् ॥ ९३ ॥
इति धीरकथानकम् ।
पुण्यैः संभाव्यते पुंसामसंभाव्यमपि कचित् । तेरुमेंरुसमाः शैलाः, किं न रामस्य वारिधौ ? ॥ ९४ ॥ यो धर्मार्थकामाह्वाः, पुरुषार्थाः प्रकीर्त्तिताः । पुनरेषु च सर्वेषु, धर्म एव प्रशस्यते ॥ ९५ ॥ धम्र्मेण जायते ह्यर्थः, कामो धर्मेण जायते । धर्मेण जायते मोक्षः, सर्वे धर्मे प्रतिष्ठितम् ॥ ९६ ॥ प्रसन्नो यस्य धर्मोऽस्ति, परमाकृष्टिमन्त्रकृत् । राज्यलक्ष्म्यादिकं सौख्यं तस्य किञ्चिन्न दुर्लभम् ॥९७॥ सुखं सांसारिकं राजन्!, प्राप्तं राज्याद्यनन्तशः । यतितव्यं तथा धर्मे, यथा मोक्षसुखं भवेत् ॥९८॥ संसारासारतां ज्ञात्वा नृपो मोक्षार्थसाधने । उत्सुकः स्वगृहे गत्वा, मूलामात्यमदोऽवदत् ॥ ९९ ॥ अथ संसारभीतोऽहं ग्रहीष्यामि मुनित्रतम् । राज्येऽत्र भवतां राजा, स्थाप्यते पुरुषोत्तमः ॥ २०० ॥ इत्युक्त्वा पुत्रमाकार्य, निवेश्य च निजासने । राज्ञाऽस्य निजहस्तेन, मुहूर्ते तिलकं कृतम् ॥ १ ॥
Jain Educatinational
For Private & Personal Use Only
www.jainelibrary.org