________________
Jain Education
सेवा गृहाणेति पृष्टः, स आख्यन्निजविक्रमम् । यादृशे तादृशे कार्ये, न प्रेष्योऽहं नरेश्वर ! ॥ १७० ॥ कष्टे भवच्छरीरस्य, समेते मम पौरुषम् । चमत्कारकरं चित्ते, मन्तव्यं मनुजेश्वर ! ॥ ७१ ॥ उरीकृत्येति भूपेन, महाऽऽग्रहपुरस्सरम् । वितीर्य लक्षं स्वर्णस्य, स्थापितोऽसौ भटाग्रणीः ॥ ७२ ॥ मान्यमानः प्रतिदिनं भुञ्जानो भूपतेर्धनम् । आद्यक्षत्रियवर्गस्य, सोऽभूच्छल्यमिवानिशम् ॥ ७३ ॥ इतश्च तस्मिन्नगरे, तस्य कर्म्मविपाकतः । दुष्टः पञ्चाननः कश्चिच्चकारोपद्रवं महत् ॥ ७४ ॥ स हिनस्ति मनुष्याणां गोवृन्दानां पुरस्तटे । प्रतोली तद्भयात्तत्र, सायाह्ने दीयते तदा ॥ ७५ ॥ कृपाणपाणयो वीरा, भुजाला ये धनुर्धराः । कृताश्रवास्ते सिंहेन, निन्यिरे यममन्दिरे ॥ ७६ ॥ प्रभूतशोको भूजानिर्मन्त्रिभिर्जगढ़े कदा | हरिणारेः स हन्ता तु, यो लक्षं लभते भटः ॥ ७७ ॥ सिंहापराधसक्रोधो, नृपो धीराय बीटकम् । समर्प्य केसरिवधमादिशत् शुरदुष्करम् ॥ ७८ ॥ | इहार्थे जनितो मात्रा, धीरश्चेतसि चिन्तयन् । वेपमानो भयात्क्रोधान्निजगाद धराधिपम् ॥ ७९ ॥ मादृशानां पशुवधं निर्दिशन् किं न लज्जसे ? । अथवा शूरशूरत्वं, याति हु स्वामिसेवया ॥ १८० ॥
stional
For Private & Personal Use Only
ww.jainelibrary.org