________________
Jain Education I
जन्तूनां पुण्यतः सर्वे, शुभं भवति नान्यथा । वेगात्सिध्यति चासाध्यमत्र धीरो निदर्शनम् ॥ ४८ ॥ तद्यथा-नगर्यां पुण्डरीकिण्यां, कातरश्चरितैः पुरा । धीरो नाम्नाऽभवद्राजा, पुत्रोऽनभ्यस्तविक्रमः ॥४९॥ धीरत्वं नामधेयेन वर्त्तते तस्य नान्यथा । अतस्त्रपापरो गेहान्निः ससार कदाऽपि न ॥ १५० ॥ वीरपुत्री प्रिया तस्य पतिभीरुत्वदुमिता । लज्जमाना सखीवृन्दे, चित्ते दोदूयतेतराम् ॥ ५१ ॥ | सेवामलभमानोऽपि, कातरत्वात्स राजसूः । ऊचे मधुरवाणीभिः, गृहिण्या स्वान्तदुष्टा ॥ ५२ ॥ राज्येऽस्मिन् भवतः शौर्यमज्ञायि पुरवासिभिः । ततो व्रजान्यदेशेषु कुरु कस्यापि सेवनाम् ॥ ५३ ॥ यथाऽन्यदेशभूपाला, देहपीनत्वमोहिताः । त्वच्चरित्रमजानानाः प्रसादं ददतेऽधिकम् ॥ ५४ ॥ तथेति सर्व्वशस्त्राणि, सज्जीकृत्य स्वमन्दिरात् । कान्तया दत्तपाथेयो, ययौ देशान्तरं प्रति ॥ ५५ ॥ विसृज्य तां पुरीं वेगात्, ब्रजन्नन्यायलम्पटैः । रुद्धो विख्यातचरितैः, सप्तभिः स मलिम्लुचैः ॥ ५६ ॥ ऊचे स दीनवाग् भीरुः, क्षिपन् वक्त्रे दशाङ्गुलीः । वासः पाथेयशस्त्राणि, गृहीत्वा मां विमुञ्चत ॥ ५७ ॥ अनाथाशरणं दीनं, कम्पमानं भयद्भुतम् । भवता किङ्करीभूतं, राजेन्द्राः ! किं न मुञ्चत ? ॥ ५८ ॥
For Private & Personal Use Only
jainelibrary.org