SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ महा. धर्मकुण्डे प्रज्वाल्यमानं तत्, सञ्जातः स्वर्णपूरुषः । स्कन्धे धृत्वा कुमारेण, स चानीतो निजे गृहे ॥४१॥ ॥१५३॥ मुक्त्वा तं च नृपस्याग्रे, संबन्धः कथितोऽखिलः। ज्ञात्वा पुत्रस्य सद्भाग्य, सहर्षोऽभून्नृपस्ततः॥४२॥ अन्यदा तत्पुरोयानेऽभ्यागात्सूरिर्गुणाकरः। साधुसप्तशतीयुक्तः, स्थितस्तत्र शुभक्षितौ ॥ ४३ ॥ गुरोरागमनं ज्ञात्वा, तदा पद्मोत्तरो नृपः । सपुत्रः सैन्ययुक्तव, गत्वा च तमवन्दत ॥ ४४ ॥ गुरुर्धांशिषं दत्त्वा, प्रारंभे धर्मदेशनाम् । भवादृशो भवारण्ये, पतन्ति किं पुनः परे ? ॥४५॥ संपदो जलतरङ्गविलोला, यौवनं त्रिचतुराणि दिनानि । शारदाभ्रमिव चञ्चलमायुः, किं धनैः परहितं न कुरुध्वम् ॥ ४६॥ अर्हद्भक्तिमतां गुरुस्मृतिजुषां क्रोधादिशत्रुद्विषां, भक्त्या पञ्चनमस्कृतिं च जपतां दानादिकं कुर्वताम् । इत्थं सिद्धिनिबन्धनोद्यतधियां पुंसां यशःशालिनां. श्लाघ्यो मृत्युरपि प्रनष्टरजसां पर्यन्तकालागतः ॥ ४७॥ ॥१५॥ Jain Education anal For Private & Personal Use Only Shrjainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy