________________
सङ्ग्रामसागरकरीन्द्रभुजङ्गसिंहदुर्व्याधिवहिरिपुवन्धनसम्भवानि ।
चौरग्रहभ्रमनिशाचरशाकिनीनां, नश्यन्ति पञ्चपरमेष्ठिपदैर्भयानि ॥ ३१ ॥ एकाग्रचित्ततो वत्स !, ध्येयमेतन्मयोदितम् । इदमुक्त्वा महादेवी, तिरोऽभूत्तत्क्षणादपि ॥ ३२ ॥ ततः स्कन्धे शबं धृत्वा, कुमारः पुरुषोत्तमः। जगाम तत्र योगी स, स्मशाने यत्र वर्त्तते ॥ ३३ ॥ शबं प्रक्षाल्य चाभ्यर्च्य, योगिना रक्तचन्दनैः । अग्निकुण्डान्तिके मुक्तं, खड्गं दत्तं च तत्करे ॥३४॥ शबपादे कुमारं तं, तैलाभ्यङ्गनहेतवे । निवेश्य योग्यभूद् ध्यानहोमाद्यमन्त्रसाधकः ॥ ३५॥ ततः शवः समुत्थाय, चालयित्वा त्वसि करे । अपतद्भूमौ कुमारे, विरूपं कर्तुमक्षमः ॥ ३६ ।। योगिना चिन्तितं किञ्चित्, विस्मृतं मन्त्रसाधने । सावधानो ददौ भूयो, जापपूर्वकमाहुतिम् ॥ ३७॥ शवमुत्थाय चाकृष्य, खङ्गं वीक्ष्य नृपाङ्गजम् । नमस्कारप्रभावेण, निष्प्रभावं पपात च ॥ ३८॥ ततस्तृतीयवेलायां, रुष्टो देवः शवस्थितः । कृत्वा योगिशिरश्छेद, व्योम्न्युत्पत्य ययौ हसन् ॥३९॥ जातं स्वर्णमयं कुण्डे, पतितं योगिनः शिरः। तद् दृष्ट्वाऽग्नौ कुमारेण, प्रक्षिप्तं योगिनो वपुः ॥ १४०॥
Jain Education
a
l
For Private Personel Use Only
Alw.jainelibrary.org