SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ धम. ॥१५२॥ Jain Education I कृशानुसेवा फलकन्दवर्त्तनं, जटाधरत्वं वनवासिनां व्रतम् । महीपतीनामिदमेव तु व्रतं यदात्मसत्यात्प्रलयेऽपि न च्युतिः ॥ २४ ॥ प्रारभ्यते न खलु विघ्नभयेन नीचैः, प्रारभ्य विघ्ननिहता विरमन्ति मध्याः । विप्रैः पुनः पुनरपि प्रतिहन्यमानाः, प्रारब्धमुत्तमगुणा न परित्यजन्ति ॥ २५ ॥ इत्थं श्रुत्वा पुनर्देवी, कुमारं प्रत्यभाषत । वत्सैकं मम वाक्यं त्वं शृणु संशयवर्जितम् ॥ २६ ॥ यतः - यस्मिन्कुले यः पुरुषः प्रधानः, स एव यत्नेन हि रक्षणीयः । तस्मिन्विनष्टे हि कुलं विनष्टं, न नाभिभङ्गेऽप्यरका वहन्ति ॥ २७ ॥ ततो हिताय ते वत्स !, पुनः शिक्षा प्रदीयते । यदा मण्डलमध्ये त्वां स्थापयेद्योग्यसौ तदा ॥ २८ ॥ ॐकारपूर्वकं पञ्चपरमेष्ठिस्मृतिं धरेः । येन विघ्नानि शाम्यन्ति, विकटान्यपि निश्चितम् ॥ २९ ॥ ||सिंहेनेव मदान्धगन्धकरिणस्तीक्ष्णांशुनेव क्षपा, ध्वान्तौघा विधुनेव तापततयः कल्पद्रुणेवाधयः । तायेंणेव फणाभृतो घनकदम्बेनेव दावाग्नयः, सत्त्वाना परमेष्ठि मन्त्रमहिमा (जपतो) वल्गन्ति नोपद्रवाः ॥ For Private & Personal Use Only महा. ॥१५२॥ jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy