SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Jain Education तत्र गत्वा कुमारोऽथ, वटमारुह्य तं शबम् । पाशं छित्त्वाऽमुचद्भूमावुततार स्वयं ततः ॥ १५ ॥ वटोद्दद्धं शवं तावत्स ददर्श च पूर्ववत् । चटित्वा पादपे भूयो, मुमोच मृतकं भुवि ॥ १६ ॥ | पुनर्वटे शवं दृष्ट्रा चेष्टां ज्ञात्वा च दैवतीम् । गृहीत्वा मृतकं हस्ते, वृक्षादुत्तीर्य सोऽचलत् ॥ १७ ॥ मार्गे गच्छन् कुमारोऽसौ, शुश्रावेति नभोगिरम् । शवमादाय मा याहि, रे त्वां योगी हनिष्यति ॥ १८ ॥ श्रुत्वेत्यूर्ध्वमसौ यावदपश्यत्तावदग्रतः । दिव्यरूपधरा नारी, प्रत्यक्षीभूय चाब्रवीत् ॥ १९ ॥ | राजाधिष्ठायिकाऽत्राहं तव रक्षाऽर्थमागता । तव विघ्नकरो योगी, विद्याव्याजेन धूर्त्तराट् ॥ १२० ॥ मा याहि तत्समीपेऽतः, शबं सुक्त्वा गृहं व्रज । श्रुत्वेति राजसूः प्रोचे, प्रतिज्ञा मेऽन्यथा न हि ॥ २१ ॥ यतः - दिग्गजकूर्म्म कुलाचल फणिपतिविधृताऽपि चलति वसुधेयम् । प्रतिपन्नममलमनसां न चलति पुंसां युगान्तेऽपि ॥ २२ ॥ अन्यच्च-श्रियो नाशं यान्तु व्रजतु निधनं गोत्रमखिलं शिरश्छेदो वाऽस्तु प्रभवतु समन्ताद्विपदपि । विवेकार्कज्योतिर्विघटित महामोहतमसः, प्रतिज्ञातादर्थात्तदपि न चलन्त्येव सुधियः ॥ २३ ॥ For Private & Personal Use Only v.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy