________________
धम.
॥१५९॥
Jain Education
"
तावत्कापालिकः कोऽपि समागात्तत्र संसदि । ऊर्ध्वकृतभुजादण्डो, नृपायाशीर्वचो ददौ ॥ ५ ॥ नृपेणाभाणि योगीन्द्र !, तवागमनकारणम् । कथय त्वं प्रसादं हि कृत्वा सम्यग् ममोपरि ॥ ६ ॥ योग्यूचे शृणु राजेन्द्र !, परोपकृतिकर्मठः । एको मन्त्रोऽस्ति मे तस्य, साहाय्यं कुरु साधने ॥ ७ ॥ अस्मिन्नसारे संसारे, परोपकृतिमेव च । आयुःशरीरलक्ष्मीणां सारं गृह्णाति बुद्धिमान् ॥ ८ ॥ यतः - शास्त्रं बोधाय दानाय धनं धर्म्माय जीवितम् । कायः परोपकाराय, धारयन्ति विवेकिनः ॥ ९ ॥ संसारे नरजन्मता न सुलभा पुंस्त्वेऽपि सद्वंशता, सद्वंशे बहुविधता बहुविदि प्रायस्तदर्थज्ञता । अर्थज्ञे स्फुटचित्रवाक्यपटुता तज्ज्ञेऽपि लोकज्ञता, लोकज्ञेऽपि सुधर्मता सुकृतिनि ब्रह्मज्ञता दुर्लभा ११० द्वाविमौ पुरुषौ लोके, जगत्रयशिरोमणी । उपकारे मतिर्यस्य, यश्च नोपकृतापहः ॥ ११ ॥ भूपोऽवादीत्सुतोऽयं मे, साहाय्यं ते करिष्यति । राजादेशात्कुमारोऽथ, जगाम सह योगिना ॥ १२ ॥ कृष्णाष्टम्यां रवेर्वारे, स्मशाने योग्यसो ययौ । संपूर्य मण्डलं तत्र, रक्तपुष्पैरपूजयत् ॥ १३ ॥ योगी प्रोचे कुमारात्राक्षताङ्गं शबमानय । तेनोक्तं मृतकं क्वास्ति, स वटोलम्बितं जगौ ॥ १४ ॥
For Private & Personal Use Only
महा.
॥१५१॥
w.jainelibrary.org