________________
धर्मपश्यन्ती च नृपान् सर्वान, लजयेषन्निरीक्षणात् । वरमालां करे कृत्वा, तत्रागच्छत्खयंवरे ॥ ८६ ॥ महा. ॥१५॥ तां वीक्ष्य भूमिपाः सर्वे, कामबाणैः प्रपीडिताः। एकदृष्टया च पश्यन्तो, दृश्यन्ते स्तम्भिता इव ॥८७॥
मण्डपे तत्र माणिक्यस्तम्भ उर्वोऽस्ति मण्डितः । तस्याधो महती मुक्ता, ज्वलतैलकटाहिका ॥८॥ स्तम्भोपरि द्वादशारं, चक्रं च रचितं चलत्। पाञ्चालिका च चक्रोर्व, नृत्यन्ती भ्रमति द्रुतम् ॥८९॥ पश्यन्कटाहिकामध्ये, वाणमूर्ध्व विमुच्य च । विध्येद्दक्षो नरस्तस्या, वामदृष्टिकनोनिकाम् ॥ ९० ॥ स एष कथ्यते सद्भी, राधावेधः सुदुष्करः । राजोचे केन वीरेण, राधावेधोऽत्र साध्यताम् ॥ ९१ ॥ ज्ञातकन्याप्रतिज्ञास्ते, सर्वे तत्रागता नृपाः। राधावेधे जडाः सन्तो, जाताः श्याममुखा हिया ॥ ९२ ॥ शब्दवेदी धनुर्वेदे, कोविदः पुरुषोत्तमः । अथोत्थाय सभामध्ये, स्तम्भस्याधः समागतः ॥ ९३ ॥ | चापमादाय चाकृष्य, युक्त्या संपूर्य सायकम् । विव्याध तत्क्षणाद्वामां, पुत्रिकाया कनीनिकाम् ॥९॥ असाध्यः साधितो राधावेधोऽनेन जयेति च । व्योमन्युच्छलिता वाणी, पुष्पवृष्टिं व्यधुः सुराः ॥९५॥ ततः पद्मावती हर्षोत्फुल्लनेत्रा व्यचिन्तयत् । पुराऽस्मिन् साभिलाषाहं, जाता सद्रूपमोहिता ॥ ९६ ॥
०००००००००००ककककककककककककककककक
॥१५०॥
Jain Education insina
For Private & Personel Use Only
jainelibrary.org