________________
इतश्च कर्णाटदेशे, श्रीविशालपुरे वरे। अभूत्पद्मरथो भूपो, रूपनिर्जितमन्मथः ॥ ७५ ॥ पद्मश्रीः प्रेयसी तस्य, शीलशृङ्गारधारिणी । वनिता वनितामुख्या, बभूव गुणशालिनी ॥ ७६ ॥ जातोपयाचितशतैस्तयोः पद्मावती सुता । पद्मिनीलक्षणा पद्म, त्यक्त्वा पद्मागतेव च ॥ ७७॥ मनोरथशतैः साघ, सा क्रमेण विवर्द्धिता । चतुष्पष्टिकलायुक्ता, जाता प्राप्ता च यौवनम् ॥ ७८॥ तां संवीक्ष्य विवाहाही, जातचिन्तो नराधिपः । तस्याः स्वयंवरं कर्तु, बभूवोद्यमतत्परः ॥ ७९ ॥ तदा पद्मावती प्रोचे, प्रतिज्ञैषाऽस्ति तात! मे । तं वरं परिणेष्यामि, राधविधे हि यः क्षमः ॥ ८ ॥ श्रुत्वैवं सुविशेषेण, स्वयंवरणमण्डपम् । राधावेधमहायुक्तियुक्तं सोऽकारयन्नृपः ॥ ८१ ॥ अनेकेष्वथ देशेषु, प्रेष्य तेन स्वमन्त्रिणः । आहूताः पृथिवीनाथा, आगताश्च क्रमेण ते ॥ २॥ आययौ सचिवाहृतः, कुमारः पुरुषोत्तमः । समित्रः सैन्यसंयुक्तः, शोभाडम्बरभासुरः ॥ ८३ ॥ आसनेषु निषण्णेषु, तेषु भूपेषु सोऽधिकम् । ऋद्ध्या रूपेण भाति सम, पद्मोत्तरनृपाङ्गजः ॥ ८४ ॥ अथ कन्या सुशृङ्गारा, सुरकन्येव भूगता। सखीजनवृता विष्वक, सुखासनसमाश्रिता ॥ ८५ ॥
in Edual an
s
al
For Private Personel Use Only
X
ainelibrary.org