SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ ।। १४९ ।। Jain Education Inter सरोगः स्वजनद्वेषी, कटुवागू मूर्खसङ्गकृत् । निघ्नो निर्दयमानी च स याति नरकावनम् ॥ ६४ ॥ बह्वाशी नैव सन्तुष्टो मायालुब्धः क्षुधातुरः । दुस्वप्नी चालसो मूढस्तिर्यग्योन्यागतो नरः ॥ ६५ ॥ मायी लोभी क्षुधालुवाकार्यसेवी कुसङ्गकृत् । बन्धुद्वेषी दयाहीनः, स च तिर्यग्गतिङ्गमी ॥ ६६ ॥ अनुलोमो विनीतश्व, दयादानरुचिर्मृदुः । सहर्षो मध्यदर्शी च, मनुष्यादागतो नरः ॥ ६७ ॥ निर्दम्भः सदयो दानी, दान्तो दक्षः सदा मृदुः । साधुसेवी जनोत्साही, भावी चात्र नरः पुनः ॥६८॥ | अन्यच्च - साभिमाना गुणैस्तुङ्गा, व्यवहारेण धार्मिकाः । विभवाभावसन्तुष्टा, मानवांशाश्च ते नराः ॥६९ धीरोद्धतगुणैस्तुङ्गा, आराध्येष्वपि गर्विताः । लोकोपतापप्रत्रणा, दानवांशा नराः स्मृताः ॥ ७० ॥ लोकोत्तरगुणैर्नम्राः, स्वकीर्त्तिश्रुतिलज्जिताः । स्वार्थं परार्थं मन्वाना, देवांशाः पुरुषोत्तमाः ॥ ७१ ॥ सात्त्विकः सुकृती दानी, राजसो विषयी भ्रमी । तामसः पातकी लोभी, सात्त्विकोऽमीषु सत्तमः ७२ | शास्त्रशस्त्रकलाभ्यास कोविदः स कुमारराट् । सात्त्विकादिगुणैः पूर्णः, पावनं प्राप यौवनम् ॥ ७३ ॥ पूर्वपुण्यप्रभावेण महालीलापुरन्दरः । संयुक्तः सदृशैर्मित्रैः स्वेच्छया क्रीडते स्म सः ॥ ७४ ॥ 1 For Private & Personal Use Only महा. ॥१४९॥ enelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy