SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ एवं श्रुत्वा भृशं राज्ञी, प्रमोदपेशलाऽभवत् । तद्दिनात्कः सुरश्च्युत्वा, तस्याः कुक्षाववातरत् ॥ ५५ ॥ तं गर्भ बिभ्रती राज्ञी, विशेषात् शुशुभेतराम् । निधानं रत्नगर्भव, शुक्तिवन्मौक्तिकव्रजम् ॥ ५६ ॥ ॥ दोहदाश्च शुभास्तस्या, उत्पन्नाः पूरिता अपि । शुभेऽह्नि सुषुवे सूनुं, सा सुभाग्यं शुभाकृतिम् ॥ ५७ ॥ पुत्रे जाते नृपस्याङ्गे, हर्षोत्कर्षो ममौ न हि । महता विस्तरेणासौ, तस्य जन्मोत्सवं व्यधात् ।। ५८ ॥ पुरुषोत्तमनामाऽथ, धात्रीभिः परिपालितः । कमात्प्रवर्द्धमानोऽसौ, सुतो जातोऽष्टवार्षिकः ॥ ५९ ॥ कलास्तेनाल्पकालेनाभ्यस्ताः प्राकशिक्षिता इव। स्वर्गागतस्य पुंसो हि, किं नाम दुष्करं भवेत् ?॥६॥ यतः-कवित्वमारोग्यमतीव मेधा, स्त्रीणां प्रियत्वं बहुरत्नलाभः । ___ दानप्रसङ्गः स्वजनेषु पूजा, स्वर्गच्युतानां किल चिह्नमेतत् ॥ ६१॥ सुधर्मः सुभगो नीरुक्, सुदयः सुनयः कविः । सुस्वप्नः पात्रदानी च, स्वर्गगामी नरो भवेत् ॥ ६२ ॥ प्रस्तावादन्यच्च-विरोधता बन्धुजनेषु नित्यं, सरोगता मूर्खजनेषु सङ्गः । .. अतीव रोषी कटुका च वाणी नरस्य चिह्नं नरकागतस्य ॥ ६३ ॥ Jan Education Inter For Private Personel Use Only Minelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy