SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ धर्म. ॥ १४८ ॥ गुणिनः सुनृतं शैौचं, प्रतिष्ठा गुणगौरवम् । अपूर्वज्ञानलाभश्व, यत्र तत्र वसेत्सुधीः ॥ ४५ ॥ यत्रार्जितानि पुण्यानि, भुञ्जानाः प्रत्यहं जनाः । अर्जयन्ति नवीनानि धनानीव विवेकिनः ॥ ४६ ॥ कार्पण्यं स्वयशोदाने, लोभो गुणगणार्जने । विद्यते व्यसनं यत्र, जनानां धर्म्मसेवने ॥ ४७ ॥ तत्पुरं पालयामास, राजा पद्मोत्तराभिधः । गुणसौरभ्यतो विश्वं, वासितं येन पद्मवत् ॥ ४८ ॥ यतः ओजः सत्त्वं नीतिर्व्यवसायो वृद्धिरिङ्गितज्ञानम् । प्रागल्भ्यं सुसहायाः, कृतज्ञता मन्त्ररक्षणं त्यागः ४९ जनरागः प्रतिपत्तिः मित्रार्जनमा नृशंस्यमस्तम्भः । आश्रितजनवात्सल्यं दश सप्त गुणाः प्रभुत्वस्य ५० युग्मम् | सद्धर्मचारिणी तस्य, जाता नाम्ना मनोहरा । पञ्चसहस्रराज्ञीनां, मुख्या या महिषी वरा ॥ ५१ ॥ रजन्यामन्यदा देव्या, तया स्वप्ने महागजः । सश्रीकः सबलो दृष्टः, प्रचण्डः पर्वताकृतिः ॥ ५२ ॥ प्रभाते भर्तुरग्रे सा, प्रिया स्वप्नं न्यवेदयत् । पप्रच्छ च प्रभो ! स्वप्नफलं किं मे भविष्यति ? ॥ ५३ ॥ स्वबुद्धिकुशलत्वेन, राजाऽवोचत्प्रिये ! शृणु । एतत्स्वप्नानुभावेन तव भावी सुतोत्तमः ॥ ५४ ॥ Jain Educationational For Private & Personal Use Only महा. ।। १४८।। www.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy