________________
महा.
त्यागोऽतिथिसंविभागः, शुद्धान्नोदकदानतः । तपस्विनां यथाशक्त्या, स्थानं पञ्चदशं हि तत् ॥ २९॥ ॥१४७॥ वैयावृत्त्यं तु गच्छस्य, बालादिदशभेदतः । भक्तविश्रामणाद्यैः स्यात्, षोडशं स्थानकं किल ॥ ३०॥
समाधिः सर्वलोकस्य, पीडादिकनिवारणात् । मनःसमाधिजननं, स्थानं सप्तदशं भवेत् ॥ ३१॥ | अपूर्वज्ञानग्रहणात्, सूत्रार्थोभयभेदतः। अष्टादशमिदं स्थानं, सर्वज्ञैः परिभाषितम् ॥ ३२ ॥ श्रुतभक्तिः पुस्तकानां, लेखनादिषु कर्मतः । व्याख्यानख्यापनैरेकोनविंशं स्थानकं भवेत् ॥ ३३ ॥ प्रभावना प्रवचने, विद्यावादनिमित्ततः । शासनस्योन्नतिर्या स्यात् , स्थानं विंशतिसंज्ञकम् ॥ ३४ ॥ एकैकं तीर्थकृन्नामकर्मबन्धस्य कारणम् । एक द्वे त्रीणि सर्वाणि, सेवितानि पुरा जिनैः ॥ ३५॥
काव्यम्-ताराणां तरणिः शशी च तमसा वल्ली वनानां द्विपः,
शीतानामनलोऽनिलो जलमुचां दम्भोलिरुर्वीभृताम् । दानं दुर्यशसां मणिर्विषरुजां यादृग्गदानां सुधीभूयो जन्मभुवां शरीरिषु भवेत्तादृक् तपोऽप्यंहसा(म् ) ॥३६ ॥
॥१४७॥
Jain Education
i
s
For Private & Personal Use Only
M
ainelibrary.org