________________
गुरूणामञ्जलिं बड्डा, वस्त्राहारादिदानतः । असमाधिनिषेधेन, स्थानमेतत्तुरीयकम् ॥ १८ ॥ स्थविरा द्विविधाः प्रोक्ता, वयसा सुगुणैरपि । तेषां भक्तिविधानेन, पञ्चमं स्थानकं विदुः ॥ १९ ॥ बहुश्रुतानां ग्रन्थार्थवेदिनां तत्त्वशालिनाम् । प्रासुकान्नादिदानेन, षष्ठस्थानमुदीरितम् ॥ २० ॥ तपस्विनां सदोत्कृष्टतपःकर्मस्थिरात्मनाम् | विश्रामणादिवात्सल्यात्सप्तमस्थानमुच्यते ॥ २१ ॥ ज्ञानोपयोगसात्यन्तं (सातत्यं), द्वादशाङ्गागमस्य च । सूत्रार्थोभयभेदेन, स्थानं ननु तदष्टमम् ॥२२॥ दर्शनं रहितं शङ्काद्यैः स्थैर्यादिगुणान्वितम् । शमादिलक्षणं यत्तु, स्थानकं नवमं मतम् ॥ २३ ॥ विनयोऽपि चतुर्भेदो, ज्ञानाद्दर्शनतोऽपि च । चारित्रादुपचाराच्च, स्थानं तद्दशमं मतम् ॥ २४ ॥ आवश्यकं भवेत्स्थानमेकादशमिदं पुनः । इच्छादिर्दशधा या च, सामाचारी जिनोदिता ॥ २५ ॥ शीलव्रतं विशुद्धं यन्नवगुप्तिनियन्त्रितम् । यत्पाल्यं निरतीचारं, स्थानं तद् द्वादशं भवेत् ॥ २६ ॥ त्रयोदशमिदं स्थानं, क्षणे क्षणे लवे लवे । शुभध्यानस्य करणं, प्रमादपरिवर्जनम् ॥ २७॥ तपो विधीयते शक्त्या, बाह्याभ्यन्तरभेदवत् । असमाधिपदत्यागात्, स्थानमुक्तं चतुर्दशम् ॥ २८ ॥
Jain Education Inte
For Private & Personel Use Only
Clainelibrary.org