________________
धम.
॥१४५॥
Jain Education
परसमयेऽपि -स्नातं तेन समस्ततीर्थसलिलैः सर्वापि दत्ता मही, यज्ञानाञ्च कृतं सहस्रमधिकं देवाश्च सन्तर्पिताः । संसाराच्च समुद्धृताः सुपितरस्त्रैलोक्यवन्द्योऽप्यसौ,
यस्य ब्रह्मविचारणे क्षणमपि स्थैर्ये मनः प्राप्नुयात् ॥ ६४ ॥
शीलं भाग्यलतामूलं, शीलं कीर्त्तिनदीगिरिः । शीलं भवाब्धितरणे, यानपात्रसमं मतम् ॥ ६५ ॥ इत्थं प्रोक्ता शीलशाखा, धर्मकल्पद्रुपादपे । एनां वीरमुखाच्छ्रुत्वा, भव्या आनन्दमादधुः ॥ ६६ ॥ इति० श्रीवीरदेशनायां श्रीधर्मकल्पमे चतुः शाखिके द्वितीयशीलशाखायां श्रीरत्नपालप्रियाशृङ्गारसुन्दर्याख्याने पञ्चमः पल्लवः समासः ॥
For Private & Personal Use Only
महा•
॥ १४५ ॥
ainelibrary.org