________________
सर्वसिद्धान्तविज्ञोऽसौ, लेभे सूरिपदं क्रमात् । भव्यसत्त्वाम्बुजारामं, सूर्यवच्च व्यबोधयत् ॥ ५७ ।। क्षपकश्रेणिमारूढो, घनकर्मचतुष्टयम् । क्षिप्त्वा संप्राप सोऽन्येयुः, केवलज्ञानमुज्ज्वलम् ॥ ५८ ॥
काव्यम्-युक्तः पञ्चसहस्रसाधुभिरयं श्रीरत्नपालो मुनिः,
पञ्चाशीतिसुवर्षलक्षामितं संपाल्य चायुर्निजम् । धानन्तजिनान्तरे शिवपदं संप्राप सिद्धा तथा,
साध्वी पञ्चशतैर्युना भगवती शृङ्गारसुन्दर्यपि ॥ ५९ ॥ इत्युक्ता शीलमाहात्म्ये, शृङ्गारसुन्दरीकथा । तत्प्रस्तावे कृतं रत्नपालसत्पुण्यवर्णनम् ।। ६० ।। तस्यैवाष्टान्यराज्ञीनां, सतीनाञ्च कथा मताः । अन्येऽपि शीलसंबन्धाः, प्रोक्ताः संबोधदायकाः ॥ ६१॥ श्रीवीरः स्माह भो भव्याः!, रत्नपालप्रियाकथाम् । श्रुत्वा सुशीलमाहात्म्ये, पालनीयं त्रिधापि तत्६२|| श्रीमन्मल्लीजिनोऽथ नेमिजिनपो जम्बूप्रभुः केवली, सम्यग्दर्शनवान् सुदर्शनगृही श्रीस्थूलिभद्रो मुनिः ।। सच्चङ्कारिसरस्वती च सुलसा सीता सुभद्रादयः, शीलोदाहरणेष्वमी सुभविनो जाता भविष्यन्ति च ६३
Jain Education Intel
For Private & Personal Use Only
hinelibrary.org