SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ यतः-राज्योपभोगशयनासनवाहनेषु, स्त्रीगन्धमाल्यमणिरत्नविभूषणेषु । इच्छाभिलाषमतिमात्रमुपैति मोहाड्यानं तदातमिति तत्प्रवदन्ति सन्तः॥ ५२॥ अजो जातः पुरे तत्र, स्थूलरोमा रुषान्वितः । पुष्टदेहो बलिष्ठश्च, करालः कपिलच्छविः ॥ ५३ ॥ वर्षान्ते देवदत्तेन, सक्रीतो द्रव्यदानतः। सस्मार पूर्वजातिञ्च, च्छागो दृष्ट्वा निजं गृहम् ॥ ५४ ॥ स्वरुपं सकलं ज्ञात्वा, च्छागोभीतो व्यचिन्तयत् । देव्यग्रेऽहं वधार्थ हा, समानीतोऽत्र वेश्मनि ॥ ५५ ॥ यात्रादिने स्वपुत्रेण, महोत्सवशतैर्युतः । चाल्यमानो न चलति, तदा लोकैः स ताडितः ॥ ५६ ॥ बलेन नीयमानेऽस्मिन,ज्ञानी मार्गेऽमिल-मुनिः । छागस्य कथितं तेन, पूर्वकृत्यं स्मराधुना ॥ ५७ ॥ यतः-सयमेव रुक्ख रोविया,अप्पणिया वोयड्डि कारिया।ओवायलुब्धपयते, किं छगला विब्बित्ति वाससे? साधुवाक्यमिति श्रुत्वा, धृत्वा सत्त्वं निजे हृदि । चचाल वेगतो मेषः, सर्वलोकैनिरीक्षितः ॥ ५९ ॥ तदाश्चर्य जना दृष्टा, चिन्तयन्ति स्वमानसे । कुट्टितोऽप्येष नाचालीन्मुनिना चालितः कथम् ॥२६०॥ देवीदत्तोऽब्रवीत्साधो !, कृपां कृत्वा ममोपरि । छागचालनमन्त्रोऽयं, दीयतां मह्यमुत्तमः ॥ ६१ ॥ Jain Education int hjainelibrary.org For Private Personal Use Only onal
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy