________________
44444
सिज्झन्ति चरणरहिया, दंसणरहिया न सिज्झति ॥ ४१ ॥
113811 दंसणभट्ठा भट्ठा, नहु भट्ठो होइ चरणपब्भट्ठो । दंसणमणुपत्तस्सवि, परिअडणं नत्थि संसारे ॥ ४२ ॥ मिच्छत्तं उच्छिन्दिय, सम्मत्तारोवणं कुणइ नियकुलस्स । तेण सयलोवि वंसो, सिद्धिपुरीसंमुहो नीओ ॥ अतः कृतेपि मिथ्यात्वे, कदाचिन्नन्दनो भवेत् । तथापि न वरो ज्ञेयः, सोपि ब्राह्मणपुत्रवत् ॥ ४४ ॥ शृणु श्रेष्ठ पुरा कोपि, देवशम्मेति वाडवः । पुत्रार्थं पाद्रवे व्यग्रो, जगादेति सुभक्तितः ॥ ४५ ॥ यदि मे त्वत्प्रसादेन, पुत्रो भवति निश्चितम् । तदा देवकुलं रम्यं कारयामि नवं तव ॥ ४६ ॥ | प्रतिवर्ष पुनस्छागमेकैकं पुरतस्तव । हनिष्यामि ततो देवि ! वाञ्छां पूरय पूरय ॥ ४७ ॥ अथ तस्याऽभवत् पुत्रः, कर्म्मणा कालयोगतः । देवीदत्तेति नाम्नासौ, निर्ममे देवशर्मणा ॥ ४८ ॥ देवताभवनं तेन, नवीनं कारितं ततः । परितो वाटिका चक्रे, खानितं च सरोवरम् ॥ ४९ ॥ हतश्छागोऽथ देवाग्रे, महोत्सव पुरस्तरम् । अजमेकं च मिथ्यात्वी, प्रतिवर्ष जघान सः ॥ २५० ॥ क्रमेण देवदत्तोऽसौ संप्राप्तवरयौवनः । परिणीतोऽथ तत्तोको, महार्त्तध्यानतो मृतः ॥ ५१ ॥
Jain Educationational
For Private & Personal Use Only
महा.
॥१४॥
www.jainelibrary.org