________________
एकत्र जन्मन्यहितं विषाद्यं, मिथ्यात्वमाहन्ति नृणामनन्तम् ॥ ३५ ॥
| मिथ्यात्वं परमो वैरी, मिथ्यात्वं परमं तमः । मिथ्यात्वं भवकूपान्ते, पातयत्यनिशं खलु ॥ ३६ ॥ अन्यच्च - शीलानि दानानि तपांसि पूजा, सत्तीर्थयात्रा प्रवरा दया च ।
सुश्रावकत्वं व्रतपालनञ्च, सम्यक्त्वपूर्वाणि महाफलानि ॥ ३७ ॥ पापं यदर्जितमनन्तभवैर्दुरन्तैः सम्यक्त्वमेकमखिलं सहसा भिनत्ति ।
भस्मीकरोति सहसा तृणकाष्ठराशीं, किं नोर्जितोज्ज्वलशिखो ज्वलनः प्रसिद्धः ॥ ३८ ॥ अतस्त्रिधा सद्गुरुदेव धर्म्म - भेदात्सुसम्यक्त्वमिदं प्रपाल्यम् ।
श्रीसंप्रतिश्रेणिकवच कर्णश्रीरामकृष्णादिकवत् सुभावात् ॥ ३९ ॥ सम्मत्तं उच्छिन्दिय, मिच्छत्तारोवणं कुणइ नियकुलस्स । सो विवंसो, दुग्गइ मुहसंमुहो नीओ ॥ २४० ॥ यतः -- दंसणभट्ठो भट्टो, दंसणभठ्ठस्स नत्थि निवाणं ।
Jain Education ional
For Private & Personal Use Only
jainelibrary.org