SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ धर्म. कस्मिन् पुण्यदिने राजा, गृहीत्वा पोषधं व्रतम् । पप्रच्छ गुरुं नत्वा च, कीदृक् संसारचेष्टितम् ?॥२६महा. ॥१४३॥ गुरुर्जगाद संसारो, गहनो यत्र देहिनः । भूयो भूयोऽपि जायन्ते, नानागतिषु कर्मभिः॥२७॥ स एव जायते तिर्य, स एव नारको भवेत् । स एव मानवोऽपि स्यात् , स एव च सुरो भवेत् ॥२८॥ पिता कापि भवेत्पुत्रो, माता है है भवेधूः। वन्धुर्भवति वैरी च, भविनो हि भवान्तरे ॥ २९॥ संसारे कोऽपि नो कस्य, वृथा मोहं धरेद्भवी । अत्रार्थे वसुदत्ताङ्गजन्मनः कथ्यते कथा ॥ ८३० ॥ यतः-सुयभवे सुच्छन्दं मुद्दियलयमण्डवहि खेलंतो। जणएण पासएहिं, बद्धो खद्धोय जगणीए ॥३१॥ तथाहि काञ्चनपुरे, वसुदत्तः सुसार्थपः । तद्भार्या वसुमत्याह्वा, सुतोऽभूद्वरुणस्तयोः ॥ ३२ ॥ मातापित्रोः स चात्यन्तं, प्राणेभ्योऽप्यधिकः प्रियः। महामोहात्क्षणमपि, तं विना तौ न तिष्ठतः॥३३॥ अत्याग्रहेऽन्यदा पुत्रो, गतो देशान्तरं प्रति । उपाय॑ धनलक्षाणि, वलितोऽसौ गृहं प्रति ॥ ३४ ॥ भीमाटव्यां मृतः शूलरोगे राजशुकोऽजनि । धनं कियद्गतं तस्य, शेषं दत्तं पितुर्जनः ।। ३५ ॥ सुतशोकेन तन्माता, हृदयस्फोटतो मृता । आर्तध्यानेन मार्जारी, जाताऽसौ निजवेश्मनि ॥३६॥ ॥१४३॥ Jain Education in वा For Private & Personal Use Only jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy