SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ जीवोऽपि धनदत्तस्य, सोऽभूद्वैदेशिको नरः । वनमध्ये च या दत्ताऽऽराधना यस्य रोगिणः ॥ १५ ॥ स मृत्वाऽभूत्ततो देवः, पूर्वप्रीत्येह येन ते। सङ्ग्रामे मन्त्रिणा साधु, सांनिध्यं कृतमुत्तमम् ॥ १६ ॥ पुनः पुण्यप्रभावेण, स्वराज्यं भोगसौख्यदम् । त्रिखण्डाधिपतित्वञ्च, संप्राप्तं भवता नृप ! ॥ १७ ॥ पुरा तन्दुलनीरेण, भृत्वा पात्रं यदर्पितम् । मुनिभ्यस्तेन पुण्येन, प्राप्तः सद्रसकुम्पकः ॥ १८ ॥ पुरा कनकमञ्जर्या, रे कुष्ठिन्मद्वचो न किम् । करोषीति निजे भृत्ये, प्रोक्तं सा तेन कुष्ठिनी ॥ १९॥ एवं प्राग्गुणमअर्या, किं रे अन्ध ! न पश्यसि ? । इत्युक्तं निजदासस्य, तेनान्धाऽभूदिहाप्यसौ ॥१२०॥ भुक्ते कर्मविपाकेऽस्मिन, गुणोऽभूदेतयोः स्त्रियोः । इत्यनालोचितं कर्म, भोक्तव्यं सर्वथा नृप ! ॥२१॥ इत्थं पूर्वभवं राजा, श्रुत्वा ज्ञात्वा च कर्मणाम् । शुभाशुभफलं धर्मे, विशेषाद् उद्यतोऽभवत् ॥ २२ ॥ चतुर्मासीमथो भूपः, केवलज्ञानिनं गुरुम् । संस्थाप्यात्मपुरे भक्त्या, चक्रे धर्मप्रभावनाम् ॥ २३ ॥ अमारिं भूरिदेशेषु, प्रावर्त्तयत सर्वदा । न्यवारयच्च सप्तापि, व्यसनानि निजाज्ञया ॥ २४ ॥ जिनालयेषु वादित्रगीतनृत्यध्वजादिकान् । महोत्सवान् महापूजा, कारयामास सोऽन्वहम् ॥ २५ ॥ Jan Education For Private & Personal Use Only AN.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy