________________
Jain Education
वसुदत्तोऽन्यदाऽन्यत्र गत्वा वाणिज्यकर्मणि । प्राप्य लाभं वलित्वा च गतस्तामटवीं क्रमात् ॥३७॥ यत्र राजशुकोऽप्यस्ति, तत्सुतः पूर्वजन्मनि । भवितव्यात्स तत्रास्थात्, यत्र तत्कीरसंस्थितिः ॥३८॥ स सहकारशाखायां निविष्टो ददृशेऽमुना | मोहात्पाशेन बद्ध्वा च गृहीत्वागान्निजे पुरे ॥ ३९ ॥ रम्यपञ्जरके क्षित्वा, पुत्रवत्तमपालयत् । भोजयत्यात्मना सार्द्धं, पाठयेत् स दिवानिशम् ॥ ८४० ॥ श्रेष्ठिनो विस्तृतं दातुं पञ्जरद्वारमेकदा । कर्म्मयोगेन मार्जार्या, तथा कीरो विनाशितः ॥ ४१ ॥ वसुदत्तोऽथ तच्छोकं, न मुमोच दिवानिशम् । कियत्यपि गते काले, तत्रागात्कोऽपि केवली ॥ ४२ ॥ वसुदत्तोऽथ तं नत्वा पप्रच्छ रचिताञ्जलिः । शुकोपरि कथं मोहो, घनो मेऽभूद्वद प्रभो ! ॥ ४३ ॥ भार्थ्यानन्दनसंबन्धं, तस्याग्रे केवली जगौ । ततो वैराग्यतो दीक्षां गृहीत्वा स ययौ शिवम् ॥ ४४ ॥ हे रत्नपाल ! संसारचेष्टेयं चित्रकारिणी । पुत्रः प्रियः शुको जातो, जनन्या सोऽपि भक्षितः ॥ ४५ ॥ इत्यादि भववृत्तान्तं प्रोक्त्वा प्रोवाच केवली । मनोवचनकायाद्याः, स्थिरीकार्या भवच्छिदे ॥ ४६ ॥ यतः - मनोविशुद्धं पुरुषस्य तीर्थ, वाक्संयमश्चेन्द्रियनिग्रहश्च ।
ional
For Private & Personal Use Only
w.jainelibrary.org