SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ नृपोऽपृच्छदरे कास्ति, तद्वस्तु यत्त्वया हृतम् । नामन्यत यदा चौर्य, तदाऽसौ ताडितोऽधिकम् ॥ ४९ ॥ ततस्तेन निजस्थानाद्, वस्तून्यानाय्य वेगतः । अर्पितानि समस्तानि, पुनः पप्रच्छ भूपतिः ॥७५० ॥ बहुकालात्पुरा यानि रत्नानि मम कोशतः । त्वया हृतानि तानि क, सन्ति चानीय मेsय ॥ ५१ ॥ तेनोक्तं धनदत्ताय, प्राग् दत्ता मणयो मयाः । न गृहीताः परं तेन, सिद्धदत्तोऽग्रहीच्च तान् ॥ ५२ ॥ आकार्य सिद्धदत्तं तं राज्ञा कारागृहे रुषा । क्षिप्त्वा नीत्वा च सर्वस्वं, मुक्तश्चौरयुतोऽय सः ॥ ५३ ॥ निर्धनत्वं ततः प्राप्तो, महाखेदं वहन् हृदि । गृहवासाच्च निर्विण्णः, सिद्धदत्तो व्यचिन्तयत् ॥ ५४ ॥ | पूर्व मे लघुता लोकेऽधुना जाता विशेषतः । निर्धनत्वे च गार्हस्थ्यमसारं तुषवद्भृशम् ॥ ५५ ॥ | इति ध्यात्वा स निस्सृत्य, गृहाद्गत्वा च कानने । भिक्षाहारी जटाधारी, तापसोऽभूद्विरागवान् ॥ ५६ ॥ इतश्च धनदत्तःस, पृष्ट आकार्य भूभुजा । अमून्यमूल्यरत्नानि न क्रीतानि कथं त्वया ? ॥ ५७ ॥ स प्रोचेऽभिग्रहः स्वामिन्!, गुरुदत्तोऽस्त्ययं मम । अदत्तचौर्यवस्तूनि न ग्राह्याणि कदाऽपि यत् ॥ ५८ ॥ व्यसनेषु न सक्तोऽहं, परनारीपराङ्मुखः । इति निर्लोभतां प्रेक्ष्य, तगुणै रञ्जितो नृपः ॥ ५९ ॥ Jain Educationtional For Private & Personal Use Only www.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy