SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ ॥१३९॥ Jain Education In रूपवन्तौ युवानौ च, तौ दृष्ट्वा मृगलोचना । सरागत्वेन वीक्षन्ती, सा धनेनोपलक्षिता ॥ ३८ ॥ तदाकबिम्बवत्सर्पवत् कुत्सितवस्तुवत् । शत्रुवद्धनदत्तेन सा पुनर्नैव वीक्षिता ॥ ३९ ॥ ततो जितेन्द्रियत्वाञ्च स कुलमालिन्यभीतितः । व्रतभङ्गाद्विवेकाच्चागच्छदाकृष्य चक्षुषी ॥ ७४० ॥ सिद्धदत्तो निर्विवेकी, तामसतीं पुनः पुनः । आलोकयत्सरागत्वाद्वजन् वालितकन्धरः ॥ ४१ ॥ तत्प्रेक्षारक्षक नरैर्धृत्वा दत्तो नृपस्य सः । तमन्यायकरं कृत्वा, गृहीता दशकोटयः ॥ ४२ ॥ | तस्मिन्पुरेऽन्यदा कश्चिदागाञ्चौरस्तदन्तिके । सपादकोटिमूल्यानि दश रत्नानि सन्ति च ॥ ४३ ॥ | एकान्ते धनदत्तस्य दर्शयित्वाऽथ तानि सः । प्रोचे द्रम्मसहस्रेण, तबैकैकं ददामि भोः ! ॥ ४४ ॥ श्रुत्वैवं वणिजाऽचिन्ति, बहुमूल्यान्यमून्यसौ । मूर्खो दत्तेऽल्पमूल्येन गृहीतुं मे न युज्यते ॥ ४५ ॥ अयं विभाव्यते चौरो, हृतान्येतानि कस्यचित् । बहुलाभेऽप्यलाभोऽयं, विचिन्त्येति स नाग्रहीत् ॥ ४६ ॥ | चौरेण सिद्धदत्तस्य दर्शितान्यथ तानि तु । तेन लोभाभिभूतेन, गृहीतान्यल्पमूल्यतः ॥ ४७ ॥ आरक्षक नरैश्चौरः, स ज्ञातः पापयोगतः । यष्टिमुष्टयादिभिर्हत्वा, तैश्वानीतो नृपातः ॥ ४८ ॥ For Private & Personal Use Only महा. ॥१३९॥ ainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy